Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 390
________________ ॥३३२ ॥ मूलम्--बालाणं अकामं तु, मरणं असइं भवे। पंडिआणं सकामं तु, उक्कोसेणं सई भवे ॥३॥ || __व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरण-|| मसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूय-1स्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः-“सञ्चिततपोधनानां, नित्यं का व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं. मरणाभिलाषस्य निषिद्धत्वादुक्तं हि-"मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ लहंति । जह इच्छसि तरि जे, संसारमहोअहिमपारं ॥१॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच्च मरणं "उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । “सइंति" | सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ ३ ॥ अथा- | | नयोयोः स्थानयोराचं स्थानमाह* मूलम्-तस्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ ४॥ | UTR-1

Loading...

Page Navigation
1 ... 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444