________________
॥३३२ ॥
मूलम्--बालाणं अकामं तु, मरणं असइं भवे। पंडिआणं सकामं तु, उक्कोसेणं सई भवे ॥३॥ || __व्याख्या-बाला इव बालाः सदसद्विवेकविकलास्तेषां अकामं, 'तुत्ति' तुशब्दस्य एवकारार्थत्वादकाममेव मरण-|| मसकृद्वारंवारं भवेत्ते हि विषयाभिष्वङ्गान्मरणमनिच्छन्त एव म्रियन्ते, तत एव च भवाटवीमटन्तो भूयो भूय-1स्तदेव मरणमासादयन्ति, पण्डितानां चारित्रवतां सह कामेनाभिलाषेण वर्तते इति सकामं सकाममिव सकामं, सकामत्वञ्च मरणागमे त्रासाभावात् , तदभावश्च तादृशां मरणस्योत्सवभूतत्वात् । यदाहुः-“सञ्चिततपोधनानां, नित्यं का व्रतनियमसंयमरतानाम् ॥ उत्सवभूतं मन्ये, मरणमनपराधवृत्तीनाम् ॥१॥" न तु परमार्थतस्तेषां मरणं प्रति सकामत्वं. मरणाभिलाषस्य निषिद्धत्वादुक्तं हि-"मा मा हु विचिंतेजा, जीवामि चिरं मरामि अ लहंति । जह इच्छसि तरि जे, संसारमहोअहिमपारं ॥१॥" तु शब्दः पूर्वापेक्षया विशेषद्योतकः, तच्च मरणं "उक्कोसेणंति" उत्कर्षोपलक्षितं केवलिसम्बन्धीत्यर्थः, अकेवलिनो हि संयमजीवितं दीर्घ स्पृहयेयुरपि, मुक्तिप्राप्तिरितः स्यादिति । केवलिनस्तु कृतकृत्यतया तदपि नेच्छन्ति आस्तां भवजीवितमिति तन्मरणस्यैवोत्कर्षेण सकामता । “सइंति" | सकृदेकवारमेव भवेत् , जघन्येन तु शेषचारित्रिणां सप्ताष्ट वा वारान् स्यादित्याकूतमिति सूत्रार्थः ॥ ३ ॥ अथा- | | नयोयोः स्थानयोराचं स्थानमाह* मूलम्-तस्थिमं पढमं ठाणं, महावीरेण देसि । कामगिद्धे जहा बाले, भिसं कूराइं कुबई ॥ ४॥ |
UTR-1