SearchBrowseAboutContactDonate
Page Preview
Page 391
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन पञ्चममव्ययनम् (५) ॥३३३॥ व्याख्या-तत्रेति तयोरकाममरणसकाममरणाख्ययोः स्थानयोर्मध्ये इदं वक्ष्यमाणं प्रथम स्थानं महावीरेण चरमतीर्थकृता, तत्रैको महाप्रज्ञ इति सामान्योक्तेरभिव्यक्तिनिमित्तमिदं "देसि" प्ररूपितं। किं तदित्याह-कामेषु इच्छामदनात्मकेषु गृद्धोऽभिकांक्षावान् कामगृद्धः, यथेत्युपदर्शना), बाल उक्तरूपो भृशमत्यर्थ कराणि रौद्राणि प्राणिव्यपरोपणादीनि कर्माणीति शेषः, "कुवइत्ति” करोति शक्ती सत्यां, अशक्ती तु तन्दुलमत्स्यवन्मनसापि करोति। तानि च कृत्वा प्रक्रमादकाम एव म्रियते इति सूत्रार्थः ॥ ४ ॥ इदमेव स्पष्टयतिमूलम्-जे गिद्धे कामभोएसु, एगे कूडाय गच्छइ । न मे दिट्टे परे लोए, चक्खुदिहा इमा रई ॥५॥| व्याख्या-य इत्यनिर्दिष्टनामा गृद्धो लम्पटः, कामौ च शब्दरूपाख्यौ, भोगाश्च स्पर्शरसगन्धाहाः, कामभोगास्तेषु एकः कश्चिदतिक्ररकर्मा कूटाय गच्छति । तत्र कूटं द्रव्यतो मृगादिबन्धनं, भावतो मिथ्याभाषणादि, तस्मै प्रवर्तते इत्यर्थः । स हि मांसादिलुब्धतया मृगादिबन्धनान्यारभते, मिध्याभाषणादीनि च सेवते, प्रेरितश्च कैश्चिद्वक्ति, । "न मे” इति, न मया दृष्टः परलोको भूतभाविजन्मात्मकः, कदाचिद्विषयरतिरपि तादृश्येव स्यादित्याह, चक्षुषा दृष्टा चक्षुदृष्टा, इयं रतिः कामजनिता चित्तप्रहात्तिः तत्कथं दृष्टत्यागाददृष्टप्रार्थनयात्मानं वञ्चये? इति तस्याशय इति सूत्रार्थः ॥ ५॥ पुनस्तदाशयमेव व्यञ्जयति (१) चित्तप्रसत्तिः UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy