________________
उत्तराध्ययन
पचममध्ययनम् (५)
।। ३३१ ।।
2 स्समरणे, वरं खु धीरत्तणे मरणं ॥ १॥ संसाररंगमञ्झे, धीवलसन्नद्धबद्धकच्छो उ । हतूण मोहमलं, हरामि |* | आराहणपडागं ॥२॥” इत्यादि ध्यात्वा धीरैः पण्डितमरणमुपादेयमन्यत्तु हेयमित्यलं प्रसङ्गेन। साम्प्रतं सूत्रमनुगम्यते।
मूलम्-अण्णवंसि महोहंसी, एगे तिण्णे दुरुत्तरे । तत्थ एगे हापण्णे, इमं पण्हमुदाहरे ॥१॥ ___ व्याख्या-अर्णव इवार्णवोऽदृष्टपरपारतया भव एव तस्मिन् , महानोघः प्रवाहो भवपरम्परात्मको यत्र स महौषः तस्मिन् , एको रागद्वेषादिसहभावरहितः, तीर्ण इव तीर्णः तीरप्राप्त इत्यर्थः । दुरुत्तरे दुःखेनोत्तरितुं शक्ये | भवार्णवे एव, तत्र सदेवमनुजासुरायां पर्षदि, एकस्तीर्थकरनामकर्मोदयादनुत्तरावाप्तविभूतितया अद्वितीयः, स हि एकदा एक एव भवतीत्येवमुक्तं, महती निरावरणतया अपरिमाणा प्रज्ञा केवलज्ञानलक्षणा यस्य स तथा, | इममनन्तरवक्ष्यमाणं प्रष्टव्यार्थरूपमुदाहरेदुदाहृतवानिति सूत्रार्थः ॥ १॥ तथा हि| मूलम्-सन्तिमे अ दुवेठाणा, अक्खाया मारणंतिआ। अकाममरणं चेव, सकाममरणं तहा ॥२॥
व्याख्या–“संतित्ति” वचनव्यत्ययात् स्तो विद्यते, इमे प्रत्यक्षे, चः पूरणे, द्वे द्विसंख्ये, तिष्ठन्त्यनयोर्जन्तव इति | स्थाने, आख्याते, प्राक्तनतीर्थकरैरपिकथिते । मरणमेवान्तो निजायुषः पर्यन्तो मरणान्तस्तस्मिन् भवे मारणान्तिके, ते एव नामतः प्रकाशयति, अकाममरणं वक्ष्यमाणलक्षणं, चः समुच्चये, एवेति पूर्ती, सकाममरणं तथा वक्ष्यमाणमेवेति सूत्रार्थः ॥ २॥ केषां पुनरिमे ? कियद्वारं ? चेत्याह
UTR-1