________________
।। ३३० ।।
ज्ञपरिज्ञया ज्ञात्वा प्रत्याख्यानपरिज्ञया परित्यागो भक्तपरिज्ञा तथा मरणं भक्तपरिज्ञामरणम् १५ । इंग्यते प्रतिनियतदेश एव चेश्यते यत्र तदिङ्गिनीमरणं, इदञ्च चतुर्विधाहारप्रत्याख्यानवतो नियमितप्रदेशे स्वयमेवोद्वर्त्तनादि कुर्वतो मुनेः स्यात् १६ । पादपो वृक्षः, उपशब्दः सादृश्ये, ततः पादपमुपगच्छति सादृश्येन प्राप्नोतीति पादपो पगमनं, अयं भावः - यथा पादपः पतितः समं विषममियचिन्तयन्निश्चलमास्ते परप्रयोगात्तु कम्पते, तथायमपि भगवान् यदङ्गं प्रथमतो यत्र समे विषमे वा पतितं तत्तत्रैव स्थापयति न तु खतश्चलयतीति १७ । इदञ्चान्त्यमरणत्रयं यद्यपि वैमानिकत्वमुक्तिलक्षणसमानफलदं यदुक्तं - " एअं पचक्खाणं, अणुपालेऊण सुविहिओ सम्मं । वेमाणिओ य देवो, हविज्ज अहवा वि सिज्झेजा ॥ १ ॥" तथापि विशिष्टविशिष्टतर विशिष्टतमधृतिमतामेवोत्तरोत्तरं सम्भवतीति विशेषात् प्रथमं कनीयः, द्वितीयं मध्यं, तृतीयं ज्येष्ठमिति ध्येयं । एषु च साध्वीनामाद्यमेव । यदाहुः“सङ्घावि अ अजाओ, सधेवि अ पढमसघयणवज्जा | सवे वि देसविरया, पञ्चखाणेण उ मरंति ॥" अत्र हि प्रत्याख्यानशब्देन भक्तपरिज्ञैव ज्ञेया । इङ्गिनीमरणं तु विशिष्टतरधृतिसंहननवतामेव स्यादित्यार्यिकानिषेधादेवावसीयते, पादपोपगमनं तु विशिष्टतमधृतिमतां वज्रर्षभनाराचसंहननवतानेव स्यादुक्तञ्च - "पढमंमि अ संघयणे, वहंतो सेलकुडसामाणो । तेसिंपि अ वुच्छेओ, चउदसपुत्राण बुच्छेए ॥ १ ॥" इत्युक्तः संक्षेपान्मरणविभागो विस्तरतस्तु बृहट्टीकातो ज्ञेयः । एषाञ्च मध्ये “धीरेण वि मरिअवं, काउरिसेण वि अवस्स मरिअवं । तम्हा अब
UTR-1