Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
।। ३४० ।।
मूलम् - तओ से मरणंतंमि, बाले संतस्सई भया ॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥ १६ ॥ व्याख्या- तत इत्यातङ्कोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः संत्रस्यति विभेतीत्यर्थः । कुतः ? भयान्नरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा कलिना एकेन प्रक्रमाद्दायेन जितः, यथा हायमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसंक्लेशफलैर्मर्त्य भोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाह-मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ १७ ॥
व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥ १७॥ यथा प्रतिज्ञातमेवाहमूलम् — मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विप्पसन्नमणाघायं, संजयाणं वसीमओ ॥१८॥ व्याख्या-‘मरणमपि आस्तां जीवितमित्यपिशब्दार्थः भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ?
UTR-1

Page Navigation
1 ... 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444