SearchBrowseAboutContactDonate
Page Preview
Page 398
Loading...
Download File
Download File
Page Text
________________ ।। ३४० ।। मूलम् - तओ से मरणंतंमि, बाले संतस्सई भया ॥ अकाममरणं मरइ, धुत्ते वा कलिणा जिए ॥ १६ ॥ व्याख्या- तत इत्यातङ्कोत्पत्तौ शोचनानन्तरं 'सेत्ति' स बालः, मरणमेवान्तो मरणान्तस्तस्मिन्नुपस्थिते इति शेषः, बालो रागादिव्यग्रचित्तः संत्रस्यति विभेतीत्यर्थः । कुतः ? भयान्नरकगतिगमनसाध्वसात्, अनेन तस्याकामत्वमुक्तं, स च तथापि मरणान्न मुच्यत इत्याह- अकामस्यानिच्छतो मरणमकाममरणं तेन म्रियते, सूत्रे चार्षत्वात् द्वितीया, नरकञ्चासौ गच्छति, तत्र चासौ शोचतीति शेषः । क इव कीदृशः सन् ? धूर्त्त इव द्यूतकार इव, वाशब्दस्योपमार्थत्वा कलिना एकेन प्रक्रमाद्दायेन जितः, यथा हायमेकेन दायेन जितः सन्नात्मानं शोचति, तथायमप्यतितुच्छैरतुच्छसंक्लेशफलैर्मर्त्य भोगैर्दिव्यसौख्यं हारितो दुःखी सन् शोचतीति सूत्रार्थः ॥ १६ ॥ प्रस्तुतमर्थ निगमयितुमाह-मूलम् - एअं अकाममरणं, बालाणं, तु पवेइअं । एत्तो सकाममरणं पंडिआणं सुणेह मे ॥ १७ ॥ व्याख्या - एतदनन्तरमेव दुःकृतकर्मणां परलोकाद्विभ्यतां यन्मरणमुक्तं तदकाममरणं बालानामेव, 'तु' शब्दस्य एवार्थत्वात् प्रवेदितं प्ररूपितं तीर्थकरादिभिरिति शेषः । पण्डितमरणप्रस्तावनामाह - 'एत्तोत्ति' इतोऽकाममरणादनु सकाममरणं पण्डितानां सम्बन्धि शृणुताकर्णयत मे मम वदत इति शेष इति सूत्रार्थः ॥ १७॥ यथा प्रतिज्ञातमेवाहमूलम् — मरणं पि सपुण्णाणं, जहा मे तमणुस्सुअं । विप्पसन्नमणाघायं, संजयाणं वसीमओ ॥१८॥ व्याख्या-‘मरणमपि आस्तां जीवितमित्यपिशब्दार्थः भवतीति गम्यते सपुण्यानां पुण्यवतां किं सर्वमपि ? UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy