SearchBrowseAboutContactDonate
Page Preview
Page 399
Loading...
Download File
Download File
Page Text
________________ उत्तराध्ययन पञ्चममध्ययनम् (५) ।।३४१ ॥ नेत्याह-यथा येनप्रकारेण मे मम कथयत इति शेषः । तदिति पूर्वसूत्रोपातं, अनुश्रुतमवधारितं भवद्भिरिति गम्यं, कीदृशं ? मरणमित्याह-'विप्पसन्नंति' विविधैर्भावनादिभिः प्रकारैः प्रसन्ना मरणेप्यनाकुलचेतसो विप्रसन्नास्तत्सम्बन्धि मरणमपि विप्रसन्नं, तथा न विद्यते आघातः पीडात्मकस्तादृशयतनया परप्राणिनामात्मनश्च विधिवत्संलिखितशरीरतया यस्मिंस्तदनाघातं, केषा ? पुनरिदमित्याह-संयतानां चारित्रिणां 'वुसीमओत्ति' आर्षत्वावश्यवन्तः वश्यान्यायत्तानि प्रस्तावादिन्द्रियाणि विद्यन्ते येषां ते वश्यवन्तस्तेषां, एतचार्थात्पण्डितमरणमेव, ततोयमर्थः-यथा खेतत्संयतानां वश्यवतां विप्रसन्नमनाघातं च भवति तथा नाऽन्यप्राणिनामिति सूत्रार्थः ॥ १८ ॥ किञ्चमूलम्-ण इमं सवेसु भिक्खुसु,न इमं सवेसु गारिसु।नाणासीला अगारस्था,विसमसीला य भिक्खुणो१९ / __ व्याख्या-नेदं पण्डितमरणं 'सवेसु भिक्खुसुत्ति' सूत्रत्वात्सर्वेषां भिक्षूणां परदत्तोपजीविना तिनामिति यावत् , किन्तु केषाञ्चिदेवोपचितपुण्यानां भावभिक्षूणां । तथा च तद्गृहस्थानां दुरापास्तमेव, अत एवाह-नेदं सर्वेषामगारिणां, सर्वचारित्रिणामेव तत्सम्भवात् , सर्वचारित्रपरिणामे तु सति तेषामपि तत्त्वतो यतित्वात् । कुत एवं ? यतो नानाशीला अनेकविधव्रता अगारस्था गृहस्था अनेकविधभङ्गकोपेतत्वाद्देशविरतेः । विषमशीलाच विसदृशशीलाश्च भिक्षयो, न हि सर्वेजिनमतप्रतिपन्ना अप्यनिदानिनोऽविकलचारित्रिणो वा म्रियन्ते ! तर्हि व तीर्थान्तरीयाः? इति सूत्रार्थः ॥ १९॥ विषमशीलतामेव भिक्षूणां समर्थयितुमाह UTR-1
SR No.600338
Book TitleUttaradhyayanam Sutram Part 01
Original Sutra AuthorN/A
AuthorChandraguptasuri
PublisherAnekant Prakashan Jain Religious Trust
Publication Year2010
Total Pages444
LanguageSanskrit
ClassificationManuscript & agam_uttaradhyayan
File Size33 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy