Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust
View full book text
________________
॥३४४ ।।
यन् ॥६॥ वैभारगिरिमारुह्य, स क्रोधाध्मातमानसः ॥ सर्वात्मना विलग्यैका, शिलां गुर्वीमचीचलत् ॥७॥ [युग्मम् ] तस्यां विलुण्ठितायां द्राक, स पृथक् स्थातुमक्षमः ॥ लुण्ठस्तया समं तस्या, एवाधस्तादुपाययौ ॥८॥ ततस्तया क्षुण्णतनुः स रौद्र-ध्यानानुबन्धी द्रमको विपद्य ॥ तमस्तमायां भुवि नारकत्वं, मध्येऽप्रतिष्ठानमवाप पापात् ॥९॥ इति द्रमककथा । ततो न भिक्षुत्वमात्रं कुगतिनिवारकं, ननु ? तर्हि तत्वतः किं सुगतिहेतुरित्याह'भिक्खाए वत्ति' भिक्षामत्ति भुंक्ते इति भिक्षादः, वा विकल्पे, अनेन व्रती प्रोक्तः, गृहस्थो वा, सुष्टु शोभनं निरतिचारतया सम्यग्भावानुगतया च व्रतं शीलपालनात्मकं यस्येति सुव्रतः, कामति गच्छति दिवं देवलोकं । मुख्यतया व्रतपालनस्य मुक्तिहेतुत्वेऽपि दिवं कामतीति कथनं जघन्यतोऽपि देवलोकावाप्तिरितः स्यादिति सूचनार्थ, अनेन | च व्रतपालनमेव तत्वतः सुगतिहेतुरिति प्रोक्तमिति सूत्रार्थः ॥ २२ ॥ अथ यैर्ऋतैर्गृहस्थोऽपि दिवं याति तान्याह| मूलम्-आगारिसामाइअंगाई, सडी कारण फासए। पोसहं दुहओ पखं, एगराइं न हावए ॥ २३ ॥ ___ व्याख्या-आगारिणो गृहिणः सामायिकं सम्यक्त्वश्रुतदेशविरतिरूपं तस्याङ्गानि निःशङ्कताकालाध्ययनाणुव्रतादिरूपाणि अगारिसामायिकांगानि 'सहीत्ति' श्रद्धावान कायेन उपलक्षणत्वान्मनसा वाचा च 'फासएत्ति' स्पृशति | सेवते, तथा पौषधं आहारपौषधादिकं 'दुहओ पखंति' प्राकृतत्वात् द्वयोरपि सितेतररूपयोः पक्षयोः चतुर्दशीपूर्णिमादितिथिषु 'एगराइंति' अपेर्गम्यमानत्वादेकरात्रिमपि केवलरात्रिसम्बन्धिनमपीत्यर्थः, उपलक्षणत्वाच्चैकदिनमपि
UTR-1

Page Navigation
1 ... 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444