Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 396
________________ ।।३३८ ॥ तिना शूलविशुचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आर्षत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं! किन्तु सदैवाजरामरवचेष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं-"भवित्री भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैक* गमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १॥” इति सूत्रार्थः ॥ ११ ॥ एतदेव व्यक्तीकरोतिमूलम्-सुआ मे नरए ठाणा, असीलाणंच जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा॥१२॥ व्यख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि, तत्किमियतापि परितप्यत इत्याहअशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदनाः शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ॥ १२॥ किञ्च• मूलम्-तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं॥ अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥ व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदि UTR-1

Loading...

Page Navigation
1 ... 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444