________________
।।३३८ ॥
तिना शूलविशुचिकादिरोगेण ग्लानो मन्दः परितप्यते, बहिरन्तश्च खिद्यते । प्रभीतः प्रकर्षण त्रस्तः 'परलोगस्सत्ति' परलोकात्, आर्षत्वात्पञ्चम्यर्थे षष्ठी, कुत एवं? यतः कर्म क्रियां अनुप्रेक्षते इत्येवंशीलः कर्मानुप्रेक्षी, कस्य ? आत्मनः, स हि हिंसादिकां स्वचेष्टां स्मरन्मया न किञ्चिच्छुभमाचरितं! किन्तु सदैवाजरामरवचेष्टितमिति ध्यायन् मनसि रोगेण वपुषि च खिद्यते । भवति हि विषयलोलुपमनसोपि प्रायः प्राणत्यागसमयेऽनुतापः ! यदुक्तं-"भवित्री
भावानां परिणतिमनालोच्य नियतां, पुरा यद्यत्किञ्चिद्विहितमशुभं यौवनमदात् ॥ पुनः प्रत्यासन्ने महति परलोकैक* गमने, तदेवैकं पुंसां व्यथयति जराजीर्णवपुषाम् ॥ १॥” इति सूत्रार्थः ॥ ११ ॥ एतदेव व्यक्तीकरोतिमूलम्-सुआ मे नरए ठाणा, असीलाणंच जा गई ॥ बालाणं कूरकम्माणं, पगाढा जत्थ वेअणा॥१२॥
व्यख्या-श्रुतानि 'मे' मया नरके स्थानानि कुम्भीवैतरण्यसिपत्रवनादीनि, तत्किमियतापि परितप्यत इत्याहअशीलानां च दुराचाराणां या गतिर्नरकादिका सापि श्रुता, कीदृशीत्याह-बालानामज्ञानां क्रूरकर्मणां हिंसादिरौद्रकर्मकारिणां प्रगाढाः प्रकृष्टा यत्र यस्यां गतौ वेदनाः शीतोष्णाद्याः । ततश्च ममाप्येवंविधानुष्ठानस्य तादृश्येव
गतिरिति ध्यायन् परितप्यत इति सूत्रार्थः ॥ १२॥ किञ्च• मूलम्-तत्थोववाइअं ठाणं, जहा मे तमणुस्सुअं॥ अहा कम्मेहिं गच्छंतो, सो पच्छा परितप्पइ ॥१३॥
व्याख्या-तत्र नरकेषु उपपाते भवमोपपातिकं स्थानं स्थितिः यथा येन प्रकारेण स्यादिति शेषः, मे मया तदि
UTR-1