________________
उत्तराध्ययन
पञ्चममध्ययनम् (५)
।। ३३७ ।।
मूलम्-कायसा वयसा मत्ते, विते गिद्धे अ इत्थिसु । दुहओ मल संचिणइ, सिसुणागुव मटिअं ॥१०॥
व्याख्या-'कायसत्ति' सूत्रत्वात्कायेन, वचसा वचनेन, उपलक्षणत्वान्मनसा च, मत्तो दृप्तः । तत्र कायेन मत्तो मदान्धगजवत् यतस्ततः प्रवृत्तिमान् , यद्वा अहो! अहं बलवान् रूपवांश्चेति चिन्तयन् , वचसा खगुणान् ख्यापयन् अहो! अहं सुखर इति वा ध्यायन्, मनसा च मदाध्मातचेताः, अहो! अहमवधारणशक्तिमानिति वा मन्यमानो वित्ते धने गृद्धो गृद्धिमान् । चशब्दो भिन्नक्रमः, ततः स्त्रीषु च गृद्धः । तत्र वित्ते गृद्ध इत्यनेन अदत्तादानग्रहणम् | तद्भावभावित्वात्तस्य । तथा स्त्रीषु गृद्ध इत्यनेन तु मैथुनासेवित्वमुक्तं, स हि स्त्रियः संसारसारभूता मन्यते वक्ति च ।
"सत्यं वच्मि हितं वच्मि, सारं वच्मि पुनः पुनः ॥ अस्मिन्नसारे संसारे, सारं सारङ्गलोचना ॥ १॥” तदासक्तश्च | मैथुनं सेवत एवेति । ततः स किं कुर्यादित्याह-'दुहओत्ति' द्विधा रागद्वेषाभ्यां मलमष्टप्रकारं कर्म सञ्चिनोति |बनाति, क इव किमित्याह-शिशुनाग इवालस इव मृत्तिकां, स हि स्निग्धतनुतया बहीरजोभिरवगुण्ड्यते, तामेव चाश्नातीति बहिरन्तश्च मलमुपचिनोति, ततश्च खरतरदिनकरकरनिकरस्पर्शतः शुष्यन्निहैव क्लिश्यते । तथायमप्युपचितकर्मवशादिहैव जन्मनि क्लिश्यते विनश्यति चेति सूत्रार्थः ॥ १० ॥ इदमेव स्पष्टयतिमूलम्-तओ पुट्टो आयंकेण, गिलाणो परितप्पइ । पभीओ परलोगस्स, कम्माणुप्पेहि अप्पणो ॥११॥ व्याख्या-'तओत्ति' स एवैकः ततो वा दण्डारम्भाधुपार्जितमलादनुस्पृष्टोऽभिभूतः, केन ? आतङ्केन आशुघा
UTR-1