Book Title: Uttaradhyayanam Sutram Part 01
Author(s): Chandraguptasuri
Publisher: Anekant Prakashan Jain Religious Trust

View full book text
Previous | Next

Page 386
________________ ॥ अथ पञ्चमाध्ययनम् ॥ ।। ३२८ ॥ काममरणीया सारभद इति उक्तं चतुर्थाध्ययनमथाकाममरणीयाख्यं पञ्चममारभ्यते । अस्य चायमभिसम्बन्ध इहानन्तराध्ययने कांक्षेद्गुणान् । यावच्छरीरभेद इति वदता मरणं यावदप्रमादो विधेय इत्युक्तं, मरणं च कति भेदं ? किं हेयं ? किञ्चोपादेयमित्यनेन सम्बन्धेनायातमिदं, ततोस प्रारम्भे मरणविभागो नियुक्तिकृता प्रोक्तः संक्षेपात्तावदुच्यते । तथाहि-"आवीइ १ ओहि २ अंतिम ३ वलायमरणं ४ वसहमरणं च ५॥ अंतोसलं ६ तम्भव ७ बालं ८ तहपंडिअं९ मीसं १० ॥१॥ छउमत्थमरण ११ केवलि १२ वेहायस १३ गिद्धपिट्टमरणं च १४ ॥ मरणं भत्तपरिण्णा १५ इंगिणि १६ पाओवगमणं च १७ ॥२॥" इति सप्तदशविधमरणम् , तत्र वीचिर्विच्छेदः अंतरमित्यर्थस्तदभावादवीचि, नारकतिर्यगूनरामराणामुत्पत्तिसमयात्प्रभृतिनिजनिजायुःकर्मदलिकानामनुसमयमनुभवनाद्विचटनं तत्प्रधानं मरणमवीचिमरणं १। अवधिर्मर्यादा, ततश्च यानि नारकादिभवनिबन्धनतया आयुःकर्मदलिकान्यनुभूय म्रियते, मृतो वा यदि पुनस्तान्येवानुभूय मरिष्यति तदा तव्यावधिमरणं, सम्भवति हि गृहीतोज्झितानामपि कर्मदलिकानां पुनर्ग्रहणं, परिणामवैचित्र्यात् । एवं क्षेत्रादिष्वपि भावनीयं २। अन्तेभवमन्तिकं, अयं भावः-यानि नारकाद्यायुष्कतया कर्मदलिकान्यनुभूय म्रियते मृतो वा न पुनस्तान्यनुभूय मरिष्यति तव्यतोऽन्तिकमरणं, एवं क्षेत्रादिष्वपि वाच्यं ३ । “वला UTR-1

Loading...

Page Navigation
1 ... 384 385 386 387 388 389 390 391 392 393 394 395 396 397 398 399 400 401 402 403 404 405 406 407 408 409 410 411 412 413 414 415 416 417 418 419 420 421 422 423 424 425 426 427 428 429 430 431 432 433 434 435 436 437 438 439 440 441 442 443 444