________________
eaeeeeeeeeeeeeeeeeeeeeeee
___ खत्तीण सेटे जह दंतवक्के, इसीण सेढे तह वद्धमाणे ॥ २२ ॥ 'हस्तिषु' करिवरेषु मध्ये यथा 'ऐरावणं शक्रवाहनं 'ज्ञात' प्रसिद्धं दृष्टान्तभूतं वा प्रधानमाहुस्तज्ज्ञाः, 'मृगाणां च श्वापदानां मध्ये यथा 'सिंह' केसरी प्रधानः तथा भरतक्षेत्रापेक्षया 'सलिलानां मध्ये यथा गङ्गासलिलं प्रधानभावमनुभवति ॥ ७॥ 'पक्षिषु' मध्ये यथा गरुत्मान् वेणुदेवापरनामा प्राधान्येन व्यवस्थितः, एवं निर्वाणं-सिद्धिक्षेत्राख्यं कर्मच्युतिलक्षणं वा स्वरूप| तस्तदुपायप्राप्तिहेतुतो वा वदितुं शीलं येषां ते तथा तेषां मध्ये ज्ञाता:-क्षत्रियास्तेषां पुत्रः-अपत्यं ज्ञातपुत्रः-श्रीमन्महावीरवर्धमानवामी स प्रधान इति, यथावस्थितनिर्वाणार्थवादिखादित्यर्थः।। २१ ॥ अपिच-योधेषु मध्ये 'ज्ञातो विदितो दृष्टान्तभूतो वा विश्वा-हस्त्यश्वरथपदातिचतुरङ्गबलसमेता सेना यस्य स विश्वसेनः-चक्रवर्ती यथाऽसौ प्रधानः, पुष्पेषु च मध्ये यथा अरविन्द प्रधानमाहुः, तथा क्षतात् त्रायन्त इति क्षत्रियाः तेषां मध्ये दान्ता-उपशान्ता यस्य वाक्येनैव शत्रवः स दान्तवाक्या-चक्रवर्ती | यथाऽसौ श्रेष्ठः । तदेवं बहून् दृष्टान्तान् प्रशस्तान् प्रदश्यांधुना भगवन्तं दार्शन्तिकं स्वनामग्राहमाह तथा ऋषीणां मध्ये श्री-18 |मान् वर्धमानखामी श्रेष्ठ इति ॥ २२ ॥ तथा
दाणाण सेढे अभयप्पयाणं, सच्चेसु वा अणवजं वयंति ।
तवेसु वा उत्तम बंभचेरं, लोगुत्तमे समणे नायपुत्ते ॥ २३ ॥ १.त्यभिप्रायः प्र.।
keeeeeeeeeeeee
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org