Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
तश्च विक्षिप्तप्रचुरभक्तपानो बहुदास्यादिपरिवृतो बहुजनस्यापरिभूतश्चासीत् । तदियता विशेषणकदम्बकेनैहिकगुणा विष्करणेन द्रव्यसंपदभिहिता ॥ अधुनाऽऽमुष्मिकगुणाविर्भावेन भावसंपदभिधीयते
से णं लेवे नाम गाहावई समणोवासए यावि होत्था, अभिगयजीवाजीवे जाव विहरइ, निग्गंथे पावयणे निस्संकिए निकंखिए निवितिगिच्छे लढे गहियट्टे पुच्छियहे विणिच्छियढे अभिगहियढे अद्विमिंजापेमाणुरागरत्ते, अयमाउसो! निग्गंथे पावयणे अयं अहे अयं परम? सेसे अणढे, उस्सियफलिहे अप्पावयदुवारे चियत्तंतेउरप्पवेसे चाउद्दसहमुद्दिपुण्णमासिणीसु पडिपुन्नं पोसहं सम्मं अणुपालेमाणे समणे निग्गंथे तहाविहेणं एसणिज्जेणं असणपाणखाइमसाइमेणं पडिलाभेमाणे बहूहिं सीलवयगुणविरमणपच्चक्खाणपोसहोववासेहिं अप्पाणं भावेमाणे एवं च णं विहरह ॥ (सू०६९)॥
णमिति वाक्यालङ्कारे, स लेपाख्यो गृहपतिः श्रमणान्-साधूनुपास्ते प्रत्यहं सेवत इति श्रमणोपासकः, तदनेन विशेषणेन | तस्य जीवादिपदार्थाविर्भावकश्रुतज्ञानसंपदावेदिता भवति, एतदेव दर्शयति अभिगतजीवाजीवेत्यादिना ग्रन्थेन यावदसहायोऽपि
देवासुरादिभिर्देवगणैरनतिक्रमणीयः-अनतिलङ्घनीयो धर्मादाच्यावनीय इतियावत् , तदियता विशेषणकलापेन तस्य सम्यग्ज्ञानिख|| मावेदितं भवति । साम्प्रतं तस्य विशिष्टसम्यग्दर्शनिखं प्रतिपादयितुमाह-निग्गंथे' इत्यादि, 'निर्ग्रन्थे' आहेते प्रवचने निर्गता ॥ शङ्का देशसर्वरूपा यस्य स निःशङ्कः, 'तदेव सत्यं निःशङ्कं यजिनैः प्रवेदित'मित्येवं कृताध्यवसायः, तथा निर्गता कासा-अन्या|| न्यदर्शनग्रहणरूपा यस्यासौ निराकाङ्क्षः, तथा निर्गता विचिकित्सा-चित्तविप्लुतिर्विद्वज्जुगुप्सा वा यस्यासौ निर्विचिकित्सो, यत ||
redaeoao2089902029202
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856