Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 820
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४०९॥ भगवान् गौतमखामी श्रीवर्धमानखामिगणधरो विहरति । अथानन्तरं भगवान् गौतमस्वामी तमिन्नारामे सह साधुभिर्व्यवस्थितः.|| ७ नाल'अर्थ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः 'पार्थापत्यस्य' पार्श्वखामिशिष्यस्थापत्यं-शिष्यः पार्थी- न्दीयाध्य, पत्यीयः, स च मेदार्यों गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यसिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्यां दिशि तसिन्वा प्रदेशे समागत्येदं-वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह पासावच्चिजो पुच्छियाइओ अजगोयम उदगो । सावगपुच्छा धम्म सोउं कहियंमि उवसंता ॥२०५॥ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतम पृष्टवान् , किं तत् ?-श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्रावकाणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपधाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कसान भवति ?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कसान भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान् , तच्च श्रावकप्रश्नस्यौपम्यं गौतमखामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्रियते'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत् , तद्यथा-आयुष्मन्गौतम! 'अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात् , तंच प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय । एवं पृष्टः, ॥४०९॥ | स चायं भगवान् , यदिवा सह वादेन सवादं पृष्टः सदाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत , Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856