SearchBrowseAboutContactDonate
Page Preview
Page 820
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४०९॥ भगवान् गौतमखामी श्रीवर्धमानखामिगणधरो विहरति । अथानन्तरं भगवान् गौतमस्वामी तमिन्नारामे सह साधुभिर्व्यवस्थितः.|| ७ नाल'अर्थ' अनन्तरं णमिति वाक्यालङ्कारे उदकाख्यो निर्ग्रन्थः पेढालपुत्रः 'पार्थापत्यस्य' पार्श्वखामिशिष्यस्थापत्यं-शिष्यः पार्थी- न्दीयाध्य, पत्यीयः, स च मेदार्यों गोत्रेण, येनैवेति सप्तम्यर्थे तृतीया, यस्यां दिशि यसिन्वा प्रदेशे भगवान् श्रीगौतमस्वामी तस्यां दिशि तसिन्वा प्रदेशे समागत्येदं-वक्ष्यमाणं प्रोवाचेति । अत्र नियुक्तिकारोऽध्ययनोत्थानं तात्पर्य च गाथया दर्शयितुमाह पासावच्चिजो पुच्छियाइओ अजगोयम उदगो । सावगपुच्छा धम्म सोउं कहियंमि उवसंता ॥२०५॥ पार्श्वनाथशिष्य उदकाभिधान आर्यगौतम पृष्टवान् , किं तत् ?-श्रावकविषयं प्रश्नं, तद्यथा-भो इन्द्रभूते ! साधोः श्रावकाणुव्रतदाने सति स्थूलप्राणातिपातादिविषये तदन्येषां सूक्ष्मबादराणां प्राणिनामुपधाते सत्यारंभजनिते तदनुमतिप्रत्ययजनितः कर्मबन्धः कसान भवति ?, तथा स्थूलप्राणातिपातव्रतिनस्तमेव पर्यायान्तरगतं व्यापादयतो नागरिकवधनिवृत्तस्य तमेव बहिःस्थं व्यापादयत इव तद्वतभङ्गजनितः कर्मबन्धः कसान भवतीत्येतत्प्रश्नस्योत्तरं गृहपतिचौरग्रहणविमोक्षणोपमया दत्तवान् , तच्च श्रावकप्रश्नस्यौपम्यं गौतमखामिना कथितं श्रुखोदकाख्यो निर्ग्रन्थः 'उपशांतः' अपगतसंदेहः संवृत्त इति । साम्प्रतं सूत्रमनुस्रियते'स' उदको गौतमस्वामिसमीपं समागत्य भगवन्तमिदमवादीत् , तद्यथा-आयुष्मन्गौतम! 'अस्ति मम विद्यते कश्चित्प्रदेशः प्रष्टव्यः' तत्र संदेहात् , तंच प्रदेशं यथाश्रुतं भवता यथा च भगवता संदर्शितं तथैव मम 'व्यागृणीहि प्रतिपादय । एवं पृष्टः, ॥४०९॥ | स चायं भगवान् , यदिवा सह वादेन सवादं पृष्टः सदाचं वा-शोभनभारतीकं वा प्रश्नं पृष्टः, तमुदकं पेढालपुत्रमेवमवादीत , Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy