Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
७ नालन्दीयाध्य.
सूत्रकृताङ्गे खरूपं, तद्यथा-सामान्यविशेषात्मकस्य वस्तुनो नैकेन प्रकारेणावगमः-परिच्छेदो निगमस्तत्र भवो नैगमो, नैकगमो वा नैगमः२ श्रुतस्क- महासामान्यापान्तरालसामान्यविशेषाणां परिच्छेदकः, तत्र महासामान्यं सर्वपदार्थानुयायिनी सत्ता अपान्तरालसामान्यं द्रव्यखजीन्धे शीला-18 वखाजीवखादिकं, विशेषाः परमाणवादयस्तद्गता वा शुक्लादयो गुणाः, तदेतत्रितयमप्यसाविच्छतीति, निलयनप्रस्थकादिदृष्टान्तैकीयावृत्तिः
रनुयोगद्वारप्रसिद्धस्तत्स्वरूपमवसेयम् , अयं च नैगमः सामान्यविशेषात्मकवस्तुसमाश्रयणेऽपि न सम्यग्दृष्टिः, भेदेनैव सामान्यवि॥४२६॥
शेषयोराश्रयणात् , तन्मताश्रितनैयायिकवैशेषिकवत् । तथा संग्रहोऽप्येवंखरूपः, तद्यथा-सम्यक् पदार्थानां सामान्याकारतया ग्रहणं सङ्ग्रहः, तथाहि-अप्रच्युतानुत्पन्नस्थिरैकखभावमेव सत्तारूपं वस्तसावभ्युपगच्छति, सत्तातो व्यतिरिक्तस्थावस्तुत्वं खरविषाणस्येव, स च संग्रहः सामान्यविशेषात्मकस्य वस्तुनः सामान्यांशस्यैवाश्रयणान्मिथ्यादृष्टिः, तन्मताश्रितसांख्यवत् । व्यवहारनयस्य तु स्वरूपमिदं, तद्यथा-यथालोकग्राहमेव वस्तु, यथा च शुष्कतार्किकैः स्वाभिप्रायकृतलक्षणानुगतं तथाभूतं वस्तु न भवत्येव, नहि प्रतिलक्षणमर्थानामात्मभेदो भवति, किं तर्हि ?, यथा यथा लोकेन विशिष्टभूयिष्ठतयार्थक्रियाकारि वस्तु व्यवहियते | तथैव तद्वस्वित्याबालगोपालाङ्गनादिप्रसिद्धत्वाद्वस्तुखरूपस्येति, अयमप्युत्पादव्ययध्रौव्ययुक्तस्य वस्तुनोऽनभ्युपगमात् मिथ्यादृष्टिः, | तथाविधरथ्यापुरुषवदिति । ऋजुसूत्रमतं त्विदं-ऋजु-प्रगुणं तच विनष्टानुत्पन्नतयाऽतीतानागतवत्रपरित्यागेन वर्तमानकालक्षणभावि यद्वस्तु तत्सूत्रयति-प्रतिपादयत्याश्रयतीति ऋजुसूत्रः, तस्यैवार्थक्रियाकारितया वस्तुखलक्षणयोगादिति, अयमपि सामान्यविशेषोभयात्मकस्य वस्तुनः सामान्यांशपरित्यागेन विशेषांशस्यैव समाश्रयणाच्छौद्धोदनिवन्न सम्यग्दृष्टिः, कारणभूतद्रव्यानभ्युपगमेन तदाश्रितविशेषस्यैवाभावादिति । शब्दनयस्वरूपं खिदं, तद्यथा-शब्दद्वारेणैवास्यार्थप्रतीत्यभ्युपगमाल्लिङ्गवचनसाधनोप
eesereceineeeeeeeeeeee
॥४२६॥
dain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 852 853 854 855 856