Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
ग्रहकालभेदाभिहितं वस्तु भिन्नमेवेच्छति, तत्र लिङ्गभेदाभिहितं वस्वन्यदेव भवति, तद्यथा-पुष्यस्तारका नक्षत्रमेवं संख्याभिन्न | जलमापो वर्षा ऋतुः, साधनभेदस्वयं-एहि मन्ये रथेन यास्यसि, नहि यातस्ते पिता, अस्थायमर्थः-एवं त्वं मन्यसे यथाऽहं रथेन | यास्यामीत्यत्र मध्यमोत्तमपुरुषयोर्व्यत्ययः, उपग्रहस्तु परस्मैपदात्मनेपदयोर्व्यत्ययः, तद्यथा-तिष्ठति प्रतिष्ठते रमते उपरमतीत्यादि, कालभेदस्तु अग्निष्टोमयाजी पुत्रोऽस्य भविता, अस्थायमर्थः-अग्निष्टोमयाजी अग्निष्टोमेनेष्टवान्, भूते णिनिः, भवितेति भविष्यदनद्यतने लुट्, तत्रायमर्थः-णिनिप्रत्ययो भवितेत्यस्य संबन्धाद्भूतकालतां परित्यज्य भविष्यत्कालता प्रतिपद्यते, तेनेदमुक्तं भवति–एवंभूतोऽस्य पुत्रो भविष्यति योऽग्निष्टोमेन यक्ष्यति । तदेवंभूतं व्यवहारनयं शब्दनयो नेच्छति, लिङ्गाद्यभिन्नांस्तु पर्यायान् अनेकविषयखेनेच्छति, तद्यथा-घटः कुटः कुम्भः इन्द्रः शक्रः पुरन्दर इत्यादि, अयमप्यर्थव्यञ्जनपर्यायोभयरूपस्य वस्तुनो व्यञ्जनपर्यायस्यैव समाश्रयणान्मिथ्यादृष्टिरिति । तथा पर्यायाणां नानार्थतया समभिरोहणात्समभिरूढो, न ह्ययं घटादिपर्यायाणामेकार्थतामिच्छति, तथाहि-घटनाद् घटः कुटनात्कुटः को भातीति कुम्भो, नहि घटनं कुटनं भवति, तथेन्दनादिन्द्रः पुर्दारणात्पुरन्दर इत्यादेरपि शब्दप्रवृत्तिनिमित्तस्य न परस्परानुगतिरिति, तदयमपि मिथ्यादृष्टिः, पर्यायाभिहितधर्मवद्वस्तुनोऽनाश्रयणाद् गृहीतप्रत्येकावयवान्धहस्तिज्ञानवदिति । एवंभूताभिप्रायस्वयं-यदैव शब्दप्रवृत्तिनिमित्तं चेष्टादिकं तमिन्घटादिके वस्तुनि |
तदैवासौ युवतिमस्तकारूढ उदकाद्याहरणक्रियाप्रवृत्तो घटो भवति, न निर्व्यापारः, एवंभूतस्यार्थस्य समाश्रयणादेवंभूताभिधानो 18नयो भवति, तदयमप्यनन्तधर्माध्यासितस्य वस्तुनोऽनाश्रयणान्मिथ्यादृष्टिः, रत्नावल्यवयवे पारागादौ कृतरत्नावलीव्यपदेशपु10 रुषवदिति । तदेवं सर्वेऽपि नयाः प्रत्येक मिथ्यादृष्टयोऽन्योऽन्यसव्यपेक्षास्तु सम्यक्त्वं भजन्ति । अत्र च ज्ञानक्रियाभ्यां मोक्ष इति
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 853 854 855 856