Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 846
________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥४२२॥ 'असूर्येषु' नित्यान्धकारेषु किल्बिषप्रधानेषु नरकस्थानेषु ते समुत्पद्यन्ते, ते च देवा नारका वा त्रसत्वं न व्यभिचरन्ति तेषु च | यद्यपि द्रव्यप्राणातिपातो न संभवति तथापि ते भावतो यः प्राणातिपातस्तद्विरतेर्विषयतां प्रतिपद्यन्ते, ततोऽपि च देवलोकाच्युता | नरकोद्धृताः क्लिष्टपञ्चेन्द्रियतिर्यक्षु तथाविधमनुष्येषु चैडमूकतया समुत्पद्यन्ते, तथा 'तमोरूवत्ताए'त्ति अन्धवधिरतया प्रत्यायान्ति, ते चोभयोरप्यवस्थयोस्त्रसत्वं न व्यभिचरन्ति इत्यतो न निर्विषयं प्रत्याख्यानम्, एतेषु च द्रव्यतोऽपि प्राणातिपातः संभवतीति ॥ | साम्प्रतं प्रत्यक्षसिद्धमेव विरतेर्विषयं दर्शयितुमाह - 'भगवं च णं उदाहु' रित्यादि, भगवानाह - यो हि प्रत्याख्यानं गृह्णाति तस्माद्दीर्घायुष्काः 'प्राणाः' प्राणिनः, ते च नारकमनुष्यदेवा द्वित्रिचतुःपञ्चेन्द्रियतिर्यञ्चश्च संभवन्ति, ततः कथं निर्विषयं प्रत्याख्यानमिति ?, शेषं सुगमं, यावत् ' णो णेयाउए भवइ' ॥ एवमुत्तरसूत्रमपि तुल्यायुष्कविषयं समानयोगक्षेमत्खाद्व्याख्येयं ।॥ तथाऽल्पायुष्कसूत्रमप्यतिस्पष्टत्वात्सूत्रसिद्धमेव, इयांस्तु विशेषो - यावत्ते न म्रियन्ते तावत्प्रत्याख्यानस्य विषयस्त्रसेषु वा समुत्पन्नाः सन्तो, | विषयतां प्रतिपद्यन्त इति । पुनरपि श्रावकाणामेव दिग्वतसमाश्रयणतः प्रत्याख्यानस्य विषयं दर्शयितुमाह - 'भगवं च णमित्यादि सुगमं यावत् 'वयं णं सामाइयं देसावकासियं ति देशेऽवकाशो देशावकाशः तत्र भवं देशावकाशिकं, इदमुक्तं भवति - पूर्वगृहीतस्य दिग्व्रतस्य योजनशतादिकस्य यत्प्रतिदिनं संक्षिप्ततरं योजनगव्यूतिपत्तनगृहमर्यादादिकं परिमाणं विधत्ते | तद्देशावका शिकमित्युच्यते । तदेव दर्शयति- 'पुरत्था पायीण' मित्यादि, 'पुरस्थि' चि प्रातरेव प्रत्याख्यानावसरे दिगाश्रितमेवंभूतं प्रत्याख्यानं करोति, तद्यथा - 'प्राचीनं' पूर्वाभिमुखं प्राच्यां दिश्येतावन्मयाऽद्य गन्तव्यं, तथा प्रतीचीनं' प्रतीच्यामपरस्यां दिशि तथा दक्षिणाभिमुखं दक्षिणस्यामेवमुदीच्यां दिश्येतावन्मयाऽद्य पञ्च योजनमात्रं तदधिकमूनतरं वा गन्तव्यमित्येवंभूतं Jain Education International For Personal & Private Use Only ७ नाळ न्दीयाध्य. ॥४२२॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 844 845 846 847 848 849 850 851 852 853 854 855 856