Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 850
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः ॥४२४॥ यानि, तत्र यत्र यत्र सास्तत्रादानशः - आदेरारभ्य श्रमणोपासकेनामरणान्तो दण्डस्त्यक्त इत्येवं योजनीयं, यत्र तु स्थावरास्तत्रार्थाय दण्डो न निक्षिप्तो-न परित्यक्तोऽनर्थाय च दण्डः परित्यक्त इति । शेषाक्षरघटना तु खबुद्ध्या विधेयेति ॥ तदेवं बहुभिर्दृष्टान्तैः सविषयतां श्रावकप्रत्याख्यानस्य प्रसाध्याधुनात्यन्तासंबद्धतां चोद्यस्य सूत्रेणैव दर्शयितुमाह- 'भगवं च णं उदाहु' रित्यादि, भगवान् गौतमखाम्युदकं प्रत्येतदाह, तद्यथा-नैतद्भूतमनादिके काले प्रागतिक्रान्ते नाप्येतदेष्येऽनन्ते काले भाव्यं नाप्येतद्वर्तमानकाले भवति ये (यत्) त्रसाः प्राणाः सर्वथा निर्लेपतया खजात्युच्छेदेनोच्छेत्स्यन्ति-स्थावरा भविष्यन्तीति, तथा स्थावराच प्राणिनः कालत्रयेsपि नैव समुच्छेत्स्यन्ति - त्रसा भविष्यन्ति, यद्यपि तेषां परस्परसंक्रमेण गमनमस्ति तथापि न सामस्त्येनान्यतरेषामितरत्र सद्भावः तथाहि न ह्येवंभूतः संभवोऽस्ति यदुत प्रत्याख्यानिनमेकं विहायापरेषां नारकाणां द्वीन्द्रियादीनां तिरथां मनुष्यदेवानां च सर्वदाऽप्यभावः एवं च त्रसविषयं प्रत्याख्यानं निर्विषयं भवति यदि तस्य प्रत्याख्यानिनो जीवत एव सर्वेऽपि नारकादयस्त्रसाः समुच्छिद्यन्ते, न चास्य प्रकारस्य संभवोऽस्त्युक्तन्यायेनेति, स्थावराणां चानन्तानामनन्तखादेव नासंख्येयेषु त्रसेषूत्पाद इति सुप्रतीतमिदं । तदेवमव्यवच्छिन्नैत्रसैः स्थावरैश्च प्राणिभिर्यद्वदत यूयमन्यो वा कश्चिद्वदति, तद्यथा - नास्त्य सौ पर्यायो यत्र श्रमणोपासकस्यैकत्रसविषयोऽपि दण्डपरित्याग इति, तदेतदुक्तनीत्या सर्वमशोभनमिति ॥ सांप्रतमुपसंजिघृक्षुराहभगवं चणं उदाहु आउसंतो ! उदगा जे खलु समणं वा माहणं वा परिभासेइ मित्ति मन्नति आगमि - ता गाणं आगमित्ता दंसणं आगमित्ता चरितं पावाणं कम्माणं अकरणयाए से खलु परलोगपलिमंथतए चिट्ठ, जे खलु समणं वा माहणं वा णो परिभासह मित्ति मन्नंति आगमित्ता णाणं आगमित्ता Jain Education International For Personal & Private Use Only ७ नाळ न्दीयाध्य. ॥४२४॥ www.jainelibrary.org

Loading...

Page Navigation
1 ... 848 849 850 851 852 853 854 855 856