Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 816
________________ सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः 1180011 अड्डे दित्ते वित्ते विच्छिण्णविपुल भवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउन्ते विच्छड्डियपउरभक्त्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था। अस्य चानन्तरपरम्परस्रुत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम् — आदानवान् धर्ममुदाहरेत्, धर्मश्च साधु श्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्र संच - | न्धस्त्वयं-'बुध्येते' त्येतदादि सूत्रं, किं तत्र बुध्येत १, यदेतद्वक्ष्यत इति । सूत्रार्थस्त्वयं सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि - प्रासादा: संजाता यस्मिंस्तत्प्रासादिर्तमाभोगमद्वा, अत एव दर्शनीयं -दर्शनयोग्यं दृष्टिसुखहेतुत्वात् तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृशं प्रतिरूपं वा प्रतिबिम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थ'ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां विभर्त्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत् सा चानेकभवनशतसन्निविष्टा - अनेकभवनशतसंकीर्णेत्यर्थः । तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत्, स चाढ्यो दीप्तः - तेजखी 'वित्तः' सर्वजन विख्यातो विस्तीर्ण विपुल भवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगा :- अर्थोपाया यानपात्रोष्ट्र मंडलिकादयः तथा प्रयोजनं प्रयोगः - प्रायोगिकत्वं तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतचे १ दीयमा० प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् । Jain Education International For Personal & Private Use Only ७ नाल न्दीयाध्य. 1180011 www.jainelibrary.org

Loading...

Page Navigation
1 ... 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856