________________
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाङ्कीयावृत्तिः
1180011
अड्डे दित्ते वित्ते विच्छिण्णविपुल भवणसयणासणजाणवाहणाइण्णे बहुधणबहुजायरूवरजते आओगपओगसंपउन्ते विच्छड्डियपउरभक्त्तपाणे बहुदासीदासगोमहिसगवेलगप्पभूए बहुजणस्स अपरिभूए यावि होत्था।
अस्य चानन्तरपरम्परस्रुत्रैः सह संबन्धो वाच्यः, तत्रानन्तराध्ययनपर्यन्ते सूत्रमिदम् — आदानवान् धर्ममुदाहरेत्, धर्मश्च साधु श्रावकभेदेन द्विधा, तत्र पूर्वोक्तेनाङ्गद्वयेन प्रायः साधुगतो विधिरभिहितोऽनेन तु श्रावकगतो विधिरुच्यते । परम्परसूत्र संच - | न्धस्त्वयं-'बुध्येते' त्येतदादि सूत्रं, किं तत्र बुध्येत १, यदेतद्वक्ष्यत इति । सूत्रार्थस्त्वयं सप्तम्यर्थे तृतीया, यस्मिन्काले यस्मिंश्चावसरे राजगृहं नगरं यथोक्तविशेषणविशिष्टमासीत्, तस्मिन् काले तस्मिंश्च समये इदमभिधीयते । राजगृहमेव विशिनष्टि - प्रासादा: संजाता यस्मिंस्तत्प्रासादिर्तमाभोगमद्वा, अत एव दर्शनीयं -दर्शनयोग्यं दृष्टिसुखहेतुत्वात् तथाऽऽभिमुख्येन रूपं यस्य तदभिरूपं, तथाऽप्रतिरूपमनन्यसदृशं प्रतिरूपं वा प्रतिबिम्बं वा स्वर्गनिवेशस्य, तदेवंभूतं राजगृहं नाम नगरं 'होत्थ'ति आसीत्, यद्यपि तत्कालत्रयेऽपि सत्तां विभर्त्ति तथाप्यतीताख्यानकसमाश्रयणादासीदित्युक्तं । तस्य च राजगृहस्य बहिरुत्तरपूर्वस्यां दिशि नालन्दा नाम बाहिरिका आसीत् सा चानेकभवनशतसन्निविष्टा - अनेकभवनशतसंकीर्णेत्यर्थः । तस्यां च लेपो नाम 'गृहपतिः' कुटुम्बिक आसीत्, स चाढ्यो दीप्तः - तेजखी 'वित्तः' सर्वजन विख्यातो विस्तीर्ण विपुल भवनशयनासनयानवाहनाकीर्णो बहुधनबहुजातरूपरजतः आयोगा :- अर्थोपाया यानपात्रोष्ट्र मंडलिकादयः तथा प्रयोजनं प्रयोगः - प्रायोगिकत्वं तैरायोगप्रयोगैः संप्रयुक्तः समन्वितः, तथेतचे
१ दीयमा० प्र० आभोगव० प्र० वरुणच्छत्रयत्नयोरिति यत्नबद्धा मूलपाठे तु परिपूर्णतावत् ।
Jain Education International
For Personal & Private Use Only
७ नाल
न्दीयाध्य.
1180011
www.jainelibrary.org