SearchBrowseAboutContactDonate
Page Preview
Page 815
Loading...
Download File
Download File
Page Text
________________ eaeeeeeeeeeeeeeeeeeeesex अन्यैरप्युक्तम्- "द्रव्यास्तिकरथारूढः, पर्यायोद्यतकार्मुकः । युक्तिसन्नाहवान्वादी, कुवादिभ्यो भवत्यलम् ॥ १॥" अयं प्रथमोऽलंशब्दार्थो भवति, खलुशब्दो वाक्यालङ्कारे, द्वितीयस्वर्थोऽलङ्कारे-अलङ्कारविषये भवेत् , संभावनायां लिङ्, तद्यथा-अलं कृतं देव ! देवेन स्वकुलं जगच्च नाभिमूनुने'त्यादि । तृतीयस्वलंशब्दार्थः प्रतिषेधे ज्ञातव्यो भवति, तद्यथा-अलं मे गृहवासेन, तथा 'अलं पापेन कर्मणा' उक्तं च-"अलं कुतीथैरिह पर्युपासितैरलं वितर्काकुलकाहलैर्मतैः । अलं च मे कामगुणैर्निपेवितैर्भयंकरा ये हि परत्र चेह च ॥ १॥" तदिह प्रतिषेधवाचिनाऽलंशब्देनाधिकार इत्येतद्दर्शयितुमाह-सत्यप्यलंशब्दस्वार्थत्रये नकारस्य सान्निध्यात्प्रतिषेधविधाय्येवेह गृह्यते, ततश्च निरुक्तविधानादयमर्थः-नालं ददातीति नालन्दा, बाहिरिकायाः स्त्रियोद्दे| शकलेन वाचकलेन च नालन्दशब्दस्य स्त्रीलिंगता, सा च सदैहिकामुष्मिकसुखहेतुखेन सुखप्रदा राजगृहनगरबाहिरिका धनक नकसमृद्धखेन सत्साध्वाश्रयखेन च सर्वकामप्रदेति । साम्प्रतं प्रत्ययार्थ दर्शयितुकाम आह-नालन्दायाः समीपे मनोरथाख्ये | उद्याने इन्द्रभूतिना गणधरेणोदकाख्यनिर्ग्रन्थपृष्टेन तुशब्दस्यैवकारार्थखात्तस्यैव भाषितमिदमध्ययनं । नालन्दायां भवं नालन्दीयं | नालन्दासमीपोद्यानकथनेन वा निवृत्तं नालन्दीयं । यथा चेदमध्ययनं नालन्दायां संवृत्तं तथोत्तरत्र "पासावचिजे" इत्यादिकया सूत्रस्पर्शिकगाथयाऽऽविष्करिष्यते, साम्प्रतं सूत्रानुगमेऽस्खलितादिगुणोपेतं सूत्रमुच्चारयितव्यं, तच्चेदंतेणं कालेणं तेणं समएणं रायगिहे नामं नयरे होत्था, रिद्धिस्थिमितसमिद्धे वण्णओ जाव पडिरूवे, तस्स णं रायगिहस्स नयरस्स बहिया उत्तरपुरच्छिमे दिसीभाए, एत्थ णं नालंदानाम बाहिरिया होत्था, अणेगभवणसयसन्निविट्ठा जाव पडिरूवा (सू०६८॥ तत्थ णं नालंदाए बाहिरियाए लेवे नामं गाहावई होत्था, Maxdea aaaaaaaa Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy