________________
७नालन्दीयाध्य.
सूत्रकृताङ्गे २ श्रुतस्कन्धे शीलाकीयावृत्तिः ॥४०६॥
समस्तद्रव्यांकन याति न गम्यते । गता
पडिसेहणगारस्सा इत्थिसद्देण चेव अलसहो । रायगिहे नयरंमी नालंदा होइ बाहिरिया ॥२०३ ॥ नालंदाए समिवे मणोरहे भासि इंदभूइणा उ । अज्झयणं उदगस्स उ एयं नालंदइजं तु ॥२०४॥
तत्र अमानोनाः प्रतिषेधवाचकाः, तद्यथा-अगौः अघट इत्याद्यकारः प्रायो द्रव्यस्यैव प्रतिषेधवाचीत्यलंदानेन सहास्य प्रयोगाभावः, माकारस्वनागतक्रियाया निषेधं विधत्ते, तद्यथा-मा कास्विमकार्य मा मंस्थाः संस्था नो युष्मदधिष्ठितदिगेव वीतायेत्यादि, नोकारस्तु देशनिषेधे सर्वनिषेधे च वर्तते, तद्यथा-नो घटो घटैकदेशो घटैकदेशनिषेधेन, तथा हास्यादयो नोकषायाः | कषायमोहनीयैकदेशभूताः, नकारस्तु समस्तद्रव्यक्रियाप्रतिषेधाभिधायी, तद्यथा-न द्रव्यं न कर्म न गुणोऽभावः, तथा नाकार्ष
न करोमि न करिष्यामीत्यादि, तथाऽन्यैरप्युक्तं-"न याति न च तत्रासीदस्ति पश्चान्नवांशवत् । जहाति पूर्व नाधारमहो व्यस|नसंततिः॥१॥" किंचान्यत्-“गतं न गम्यते तावदगतं नैव गम्यते । गतागतविनिर्मुक्तं, गम्यमानं तु गम्यते ॥"इत्यादि । तदेवमत्र नकारः प्रतिषेधविधायकोऽप्युपात्तः, अलंशब्दोऽपि यद्यपि 'अलं पर्याप्ति 'वारणभूषणेष्वपीति त्रिष्वर्थेषु पठ्यते, तथापीह। प्रतिषेधवाचकेन नत्रा साहचर्यात्प्रतिषेधार्थ एव गृह्यते, तत्र चालंशब्दे नामस्थापनाद्रव्यभावभेदाचतुर्विधो निक्षेपो भवति, तत्र |नामालं यस्य चेतनस्य अचेतनस्य वाऽलमिति नाम क्रियते, स्थापनालं तु यत्र कचिच्चित्रपुस्तकादौ पापनिषेधं कुर्वन्साधुः स्थाप्यते,
द्रव्यनिषेधस्तु नोआगमतो ज्ञशरीरभव्यशरीरव्यतिरिक्तो द्रव्यस्य चौराद्याहृतस्यैहिकापायभीरुणा यो निषेधः क्रियते स द्रव्य| निषेधः, एवं द्रव्येण द्रव्याद् द्रव्ये वा निषेधः, भावनिषेधं तु स्वत एव नियुक्तिकारोऽलंशब्दस्य संभविनमर्थ दर्शयन्धिमणिपुराह-MS पर्याप्तिभावः-सामर्थ्य तत्रालंशब्दो वर्तते, अलं मल्लो मल्लाय, समर्थ इत्यर्थः, लोकोतरेऽपि “नालं ते तव ताणाए वा सरगाए वा"।
॥४०६॥
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org