________________
सूत्रकृताङ्गं शीलाङ्काचाय
तियुतं
॥ १५१ ॥
कोहं च माणं च तहेव मायं, लोभं चउत्थं अज्झत्थदोसा । एआणि वंता अरहा महेसी, ण कुबई पाव ण कारवेइ ॥ २६ ॥
स हि भगवान् यथा पृथिवी सकलाधारा वर्तते तथा सर्वसच्चानामभयप्रदानतः सदुपदेशदानाद्वा सच्वाधार इति, यदिवायथा पृथ्वी सर्वसहा एवं भगवान् परीषहोपसर्गान् सम्यक् सहत इति, तथा 'धुनाति' अपनयत्यष्टप्रकारं कर्मेति शेषः, तथा'विगता' प्रलीना सबाह्याभ्यन्तरेषु वस्तुषु 'मृद्धिः' गामभिलाषो यस्य स विगतगृद्धि:, तथा सन्निधानं सन्निधिः, स च द्रव्यसन्निधिः धनधान्यहिरण्यद्विपद चतुष्पदरूपः भावसन्निधिस्तु माया क्रोधादयो वा सामान्येन कषायास्तमुभयरूपमपि संनिधिं न करोति भगवान्, तथा 'आशुप्रज्ञः सर्वत्र सदोपयोगात् न छद्मस्थवन्मनसा पर्यालोच्य पदार्थपरिच्छित्तिं विधत्ते, स एवम्भूतः तरिना समुद्रमिवापारं 'महाभवौघं' चतुर्गतिकं संसारसागरं बहुव्यसनाकुलं सर्वोत्तमं निर्वाणमासादितवान्, पुनरपि | तमेव विशिनष्टि - 'अभयं' प्राणिनां प्राणरक्षारूपं स्वतः परतश्च सदुपदेशदानात् करोतीत्यभयंकरः, तथाऽष्टप्रकारं कर्म विशेषेणेरयति - प्रेरयतीति वीरः, तथा 'अनन्तम्' अपर्यवसानं नित्यं ज्ञेयानन्तत्वाद्वाऽनन्तं चक्षुरिव चक्षुः - केवलज्ञानं यस्य स तथेति ॥ २५ ॥ किश्वान्यत् – 'निदानोच्छेदेन हि निदानिन उच्छेदो भवती 'ति न्यायात् संसारस्थितेश्च क्रोधादयः कषायाः कारणमत एतान् अध्यात्मदोषांश्चतुरोऽपि क्रोधादीन् कषायान् 'वान्त्वा' परित्यज्य असौ भगवान् 'अर्हन्' तीर्थकृत् जातः, तथा मह
Jain Education International
For Personal & Private Use Only
६ श्रीमहावीरस्तुत्य.
॥ १५१ ॥
www.jainelibrary.org