Book Title: Sutrakritangasutram
Author(s): Shilankacharya,
Publisher: Agamoday Samiti
View full book text
________________
सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः
॥३६५॥
| ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्येषु घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचितदण्डो भवतीति इदमुक्तं भवति - यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रिय विकलेन्द्रियादयस्तत्प्रत्ययिकेन [च] कर्मणा बध्यन्ते, एवं | मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा - ' आया अपच्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजइत्ति इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्खा चोदयति, तद्यथा - 'तत्थ चोयए पण्णवगं एवं वयासीत्यत आरभ्य यावजे ते एवमाहंसु मिच्छं ते एवमाहंसु'ति । तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा - यन्मया पूर्वं प्रतिज्ञातं तत्सम्यक्, कस्य | हेतोः ? - केन हेतुनेति चेत्, तत्र हेतुमाह - ' तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णत्ता इत्यत आरभ्य यावत् मिच्छादंससल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्व व्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा - ' तत्थ खलु भगवया वहए दिते पण्णत्ते इत्यत आरभ्य यावत् खणं लद्भूणं वहिस्सामीति पहारेमाणे 'त्ति, तदेवं दृष्टान्तं प्रदर्श्य तत्र च हेतोः सत्तां स्वाभि प्रेतां परेण भाणयितुमाह- 'से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति तदेवं हेतोर्दृष्टान्ते सत्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं दृष्टान्तधर्मिणि हेतोः सत्तां परेणाभ्युपगतामनुवदति - 'जहा से वहए इत्यत आरभ्य यावण्णिचं पस| ढविउवायचित्तदंडे 'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह - 'एवमेव वाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजइत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदर्श्याधुना प्रतिज्ञाहेतोः पुनर्वचनं निगमनमित्ये
Jain Education International
For Personal & Private Use Only
४ प्रत्याख्याना०
अविरतस्य पापचन्धः
॥ ३६५॥
www.jainelibrary.org

Page Navigation
1 ... 730 731 732 733 734 735 736 737 738 739 740 741 742 743 744 745 746 747 748 749 750 751 752 753 754 755 756 757 758 759 760 761 762 763 764 765 766 767 768 769 770 771 772 773 774 775 776 777 778 779 780 781 782 783 784 785 786 787 788 789 790 791 792 793 794 795 796 797 798 799 800 801 802 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856