SearchBrowseAboutContactDonate
Page Preview
Page 732
Loading...
Download File
Download File
Page Text
________________ सूत्रकृताङ्गे २ श्रुतस्क न्धे शीलाङ्कीयावृत्तिः ॥३६५॥ | ज्ञानावृत एकेन्द्रियादिरपि सर्वेषामेव प्राणिनां विरतेरभावात्तद्योग्यतया प्रत्येकं वध्येषु घातकचित्तं समादाय नित्यं प्रशठव्यतिपातचितदण्डो भवतीति इदमुक्तं भवति - यथाऽसौ तस्माद्गृहपतिराजादिघातादनुपशान्तवैरः कालावसरापेक्षितया वधमकुर्वाणोऽप्यविरतिसद्भावाद्वैरान्न निवर्त्तते तत्प्रत्ययिकेन च कर्मणा बध्यते एवं तेऽपि एकेन्द्रिय विकलेन्द्रियादयस्तत्प्रत्ययिकेन [च] कर्मणा बध्यन्ते, एवं | मृषावादादत्तादानमैथुनपरिग्रहेष्वपि प्रतिज्ञाहेतुदृष्टान्तोपनयनिगमनार्थविधानेन पञ्चावयवत्वं वाच्यमिति, इहैवं पञ्चावयवस्य वाक्यस्य सूत्राणां विभागो द्रष्टव्यः, तद्यथा - ' आया अपच्चक्खाणी यावि भवतीत्यत आरभ्य यावत्पावे य से कम्मे कजइत्ति इतीयं प्रतिज्ञा, तत्र परः प्रतिज्ञामात्रेणोक्तमनुक्तसममितिकृत्खा चोदयति, तद्यथा - 'तत्थ चोयए पण्णवगं एवं वयासीत्यत आरभ्य यावजे ते एवमाहंसु मिच्छं ते एवमाहंसु'ति । तत्र प्रज्ञापकश्चोदकं प्रत्येवं वदेत्, तद्यथा - यन्मया पूर्वं प्रतिज्ञातं तत्सम्यक्, कस्य | हेतोः ? - केन हेतुनेति चेत्, तत्र हेतुमाह - ' तत्थ खलु भगवया छ जीवनिकाया हेऊ पण्णत्ता इत्यत आरभ्य यावत् मिच्छादंससल्ले' इत्ययं हेतुः, तदस्य हेतोरनैकान्तिकत्व व्युदासार्थं स्वपक्षे सिद्धिं दर्शयितुं दृष्टान्तमाह, तद्यथा - ' तत्थ खलु भगवया वहए दिते पण्णत्ते इत्यत आरभ्य यावत् खणं लद्भूणं वहिस्सामीति पहारेमाणे 'त्ति, तदेवं दृष्टान्तं प्रदर्श्य तत्र च हेतोः सत्तां स्वाभि प्रेतां परेण भाणयितुमाह- 'से किं नु हु णाम से वहए इत्यादेरारभ्य यावद्धन्ता भवति तदेवं हेतोर्दृष्टान्ते सत्वं प्रसाध्य हेतोः पक्षधर्मत्वं दर्शयितुमुपनयार्थं दृष्टान्तधर्मिणि हेतोः सत्तां परेणाभ्युपगतामनुवदति - 'जहा से वहए इत्यत आरभ्य यावण्णिचं पस| ढविउवायचित्तदंडे 'त्ति, साम्प्रतं हेतोः पक्षधर्मत्वमाह - 'एवमेव वाले अवीत्यादीत्यत आरभ्य यावत्पावे य से कम्मे कजइत्ति । तदेवं प्रतिज्ञाहेतुदृष्टान्तोपनयप्रतिपादकानि यथाविधि सूत्राणि विभागतः प्रदर्श्याधुना प्रतिज्ञाहेतोः पुनर्वचनं निगमनमित्ये Jain Education International For Personal & Private Use Only ४ प्रत्याख्याना० अविरतस्य पापचन्धः ॥ ३६५॥ www.jainelibrary.org
SR No.600218
Book TitleSutrakritangasutram
Original Sutra AuthorShilankacharya
Author
PublisherAgamoday Samiti
Publication Year1917
Total Pages856
LanguageSanskrit
ClassificationManuscript & agam_sutrakritang
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy