Book Title: Sutrakritangasutram
Author(s): Shilankacharya, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 805
________________ | भूतस्यान्तरात्मन एवाभावः, तथाऽस्माकमपि पश्च यमाः अहिंसादयो भवतां च त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयसिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तसाद्धमें मुष्ठ स्थिताः पूर्वमिन् काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच्च श्रुतज्ञानं केवलाख्यं च यथाखमावयोर्दर्शने प्रसिद्धं, तथा संपर्य्यन्ते स्वकर्मभिर्धाम्यन्ते प्राणिनो यसिन्स संपरायः-संसार-18 स्तसिंश्चावयोन विशेषोऽस्ति, तथाहि यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते असाकमपि तथैव, द्रव्यात्मतया नित्यवं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादसाकमपीति ॥४६॥ पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनायाहु: अचत्तरूवं पुरिसं महंतं, सणातणं अक्खयमवयं च । सवेसु भूतेमुवि सवतो से, चंदो व ताराहिं समत्तरूवे ॥४७॥ एवं ण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवा य, नरा य सत्वे तह देवलोगा ॥४८॥ पुरि शयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमूर्तखादव्यक्तं रूपं-स्वरूपमस्यासावव्यक्तरूपः तं, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात् , तथा 'महान्तं' लोकव्यापिनं तथा 'सनातनं' शाश्वतं द्रव्या १ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया । Jain Education International For Personal & Private Use Only www.janelibrary.org

Loading...

Page Navigation
1 ... 803 804 805 806 807 808 809 810 811 812 813 814 815 816 817 818 819 820 821 822 823 824 825 826 827 828 829 830 831 832 833 834 835 836 837 838 839 840 841 842 843 844 845 846 847 848 849 850 851 852 853 854 855 856