________________
| भूतस्यान्तरात्मन एवाभावः, तथाऽस्माकमपि पश्च यमाः अहिंसादयो भवतां च त एव पञ्च महाव्रतरूपाः, तथेन्द्रियनोइन्द्रियनियमोऽप्यावयोस्तुल्य एव, तदेवमुभयसिन्नपि धर्मे बहुसमाने सम्यगुत्थानोत्थिता यूयं वयं च तसाद्धमें मुष्ठ स्थिताः पूर्वमिन् काले वर्तमाने एष्ये च यथागृहीतप्रतिज्ञानिर्वोढारो, न पुनरन्ये, यथा व्रतेश्वरयागविधानेन प्रव्रज्यां मुक्तवन्तो मुञ्चन्ति मोक्षन्ति चेति, तथाऽऽचारप्रधानं शीलमुक्तं यमनियमलक्षणं न फल्गु कल्ककुहकाजीवनरूपम् अथानन्तरं ज्ञानं च मोक्षाङ्गतयाऽभिहितं, तच्च श्रुतज्ञानं केवलाख्यं च यथाखमावयोर्दर्शने प्रसिद्धं, तथा संपर्य्यन्ते स्वकर्मभिर्धाम्यन्ते प्राणिनो यसिन्स संपरायः-संसार-18 स्तसिंश्चावयोन विशेषोऽस्ति, तथाहि यथा भवतां कारणे कार्य नैकान्तेनासदुत्पद्यते असाकमपि तथैव, द्रव्यात्मतया नित्यवं भवद्भिरप्याश्रितमेव, तथोत्पादविनाशावपि युष्मदभिप्रेतावाविर्भावतिरोभावाश्रयादसाकमपीति ॥४६॥ पुनरपि त एवैकदण्डिनः सांसारिकजीवपदार्थसाम्यापादनायाहु:
अचत्तरूवं पुरिसं महंतं, सणातणं अक्खयमवयं च । सवेसु भूतेमुवि सवतो से, चंदो व ताराहिं समत्तरूवे ॥४७॥ एवं ण मिजंति ण संसरंती, ण माहणा खत्तिय वेस पेसा । कीडा य पक्खी य सरीसिवा य, नरा य सत्वे तह देवलोगा ॥४८॥
पुरि शयनात्पुरुषो-जीवस्तं यथा भवन्तोऽभ्युपगतवन्तस्तथा वयमपि, तमेव विशिनष्टि-अमूर्तखादव्यक्तं रूपं-स्वरूपमस्यासावव्यक्तरूपः तं, करचरणशिरोग्रीवाद्यवयवतया स्वतोऽनवस्थानात् , तथा 'महान्तं' लोकव्यापिनं तथा 'सनातनं' शाश्वतं द्रव्या
१ वक्ष्यमाणानां विशेषणानां सापेक्षमभ्युपगमापेक्षया ।
Jain Education International
For Personal & Private Use Only
www.janelibrary.org