________________
निवेशयेदिति, अनेनाविशिष्टं वस्त्रस्तित्वं प्रसाधितम् इदानीं तस्यैव वस्तुन ईषद्विशेषितखेन लोकालोकरूपतयाऽस्तित्वं प्रसाधयन्नाह - eft लोए अलोए वा णेवं सन्नं निवेसए । अस्थि लोए अलोए वा, एवं सन्नं निवेस ॥ १२ ॥
णत्थि जीवा अजीवा वा, णेवं सन्नं निवेसए । अस्थि जीवा अजीवा वा, एवं सन्नं निवेस ॥ १३ ॥ (सू० 'लोकः' चतुर्दशरज्ज्वात्मको धर्माधर्माकाशादिपश्चास्तिकायात्मको वा स नास्तीत्येवं संज्ञां नो निवेशयेत् । तथाऽऽकाशास्तिकायमात्र कस्त्वलोकः स च न विद्यते एवेत्येवं संज्ञां नो निवेशयेत् । तदभावप्रतिपत्तिनिबन्धनं खिदं तद्यथा - प्रतिभासमानं वस्त्ववयवद्वारेण वा प्रतिभासेतावयविद्वारेण वा ?, तत्र न तावदवयवद्वारेण प्रतिभासनमुत्पद्यते, निरंशपरमाणूनां प्रतिभासना| संभवात्, सर्वारातीयभागस्य च परमाण्वात्मकत्वात्तेषां च छद्मस्थविज्ञानेन द्रष्टुमशक्यत्वात्, तथा चोक्तम् - " यावदृश्यं परस्तावद्भागः स च न दृश्यते । निरंशस्य च भागस्य, नास्ति छद्मस्थदर्शनम् ॥ ॥ ' इत्यादि, नाप्यवयविद्वारेण, विकल्प्यमानस्यावयविन एवाभावात्, तथाहि - असौ स्वावयवेषु प्रत्येकं सामस्त्येन वा वर्त्तेत ? अंशांशिभावेन वा १, न सामस्त्येनावयविबहुत्वप्रसङ्गात्, नाप्यंशेन पूर्वविकल्पानतिक्रमेणानवस्थाप्रसङ्गात्, तस्माद्विचार्यमाणं न कथञ्चिद्वस्वात्मभावं लभते, ततः सर्वमेवैतन्मायास्वमेन्द्रजालमरुमरीचिका विज्ञानसदृशं तथा चोक्तम् - " यथा यथार्थाश्चिन्त्यन्ते, विविच्यन्ते तथा तथा । यद्येते (तत्) स्वयमर्थेभ्यो, रोचन्ते (ते) तत्र के वयम् १ || १ ||" इत्यादि । तदेवं वस्त्रभावे तद्विशेषलोकालोकाभावः सिद्ध एवेत्येवं नो संज्ञां निवेशयेत् । किंत्वस्ति लोक ऊर्ध्वाधस्तिर्यग्रूपो वैशाखस्थानस्थित कटिन्यस्तकरयुग्म पुरुषसदृशः पश्चास्तिकायात्मको वा तद्व्यतिरिक्त वालोकोऽप्यस्ति संबन्धिशब्दखात्, लोकव्यवस्थाऽन्यथाऽनुपपत्तेरिति भावः, युक्तिवात्र- यदि सर्व नास्ति तत सर्वान्तःपातिला
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org