Book Title: Sutrakritang Sutra Author(s): Kulchandrasuri, Nyayaratnavijay, Ratnachandravijay, Hemprabhvijay Publisher: Jain Shwetambar Murtipujak Sangh View full book textPage 8
________________ aaaaaaaaad श्री सूत्रकृताङ्गसूत्रम् acadasis । नियुक्तिकृदाहपंचण्हं संजोए अण्णगुणाणं च चेयणाइगुणो । पंचिंदियठाणाणं ण अण्णमुणियं मुणइ अण्णो ||नि.गा.३३।। पञ्चानां-पृथिव्यादिभूतानां संयोगे-कायाकारपरिणामे चैतन्यादिगुणो न भवति, पृथिव्यादीनाम् अन्यगुणत्वात् । पञ्चेन्द्रियाणां स्थानानां-उपादानकारणानां चैतन्यगुणाभावात् तदारब्धेन्द्रियाणां प्रत्येकविषयग्राहित्वे सति संकलनाप्रत्ययाभावाच्च यतो नान्यमुणितं-नान्येनगृहीतं मुणति-जानाति अन्यद् इन्द्रियमिति ।।९।। साम्प्रतमेकात्माद्वैतवादं पूर्वपक्षयितुमाहजहा य पुढवीथूभे एगे, नाणा हि दीसइ । एवं भो ! कसिणे लोए, विन्नू नाना हि दीसइ ।।९।। यथा पृथिव्येव स्तूप: पृथिवीस्तूप एकोऽपि नानात्वेन निम्नोन्नतसरित्समुद्रपर्वतनगरसन्निवेशाद्याधारतया विचित्रो दृश्यते, एवं-तथा भो ! कृत्स्नोऽपि लोक: चेतनाचेतनरूप एक एव ह्यात्मा विद्वान्-ज्ञानपिण्डः पृथिव्यादिभूताद्याकारतया नाना दृश्यते, तथा चोक्तम्"एक एव हि भूतात्मा, भूते भूते व्यवस्थितः । एकधा बहुधा चैव, दृश्यते जलचन्द्रवत् ।।९।। एतदेव सोत्तरमाहएवमेगेत्ति जंति, मंदा आरंभणिस्सिया । एगे किच्चा सयं पावं, तिव्वं दुक्खं नियच्छइ ||१०|| एवम् एक एवाऽऽत्मा इति जल्पन्ति मन्दा आरम्भनिश्रिताः । तेषामुत्तरम्-एकात्मकत्वे सति एक : कृत्वा स्वयं पापं स एव कथं तीव्र दु:खं नियच्छति-प्राप्नोति-वेदयति, नान्ये वेदयन्ते ? इति । यस्माच्च य एव पापं करोति स एव वेदयति, नान्यः तेन एकात्मकत्वं न भवतीति ।।१०।। साम्प्रतं तज्जीवतच्छरीरवादिमतं पूर्वपक्षयितुमाहपत्तेयं कसिणे आया, जे बाला जे य पंडिता । संति पेच्चा ण ते संति, णत्थि सत्तोववाइया ||११|| तज्जीवतच्छरीरवादिनामयमभ्युपगम:-यथा पञ्चभ्यो भूतेभ्यः कायाकारपरिणतेभ्यश्चैतन्यमुत्पद्यते अभिव्यज्यते वा, तेनैकैकं शरीरं प्रति प्रत्येकमात्मानः कृत्स्ना : सर्वेऽपि आत्मान एवमवस्थिताः, ये बाला ये च पण्डितास्ते सर्वे इह पृथग् व्यवस्थिता: सन्ति ते प्रेत्य परलोके न सन्ति-न विद्यन्ते यतो नास्ति न विद्यन्ते सत्त्वा औपपातिका: परलोकगामिनः, तथाहि तदागम:-“विज्ञानघन एवैतेभ्यो भूतेभ्यः समुत्थाय तान्येवानुविनश्यति न प्रेत्य संज्ञाऽस्ती''ति ।।११।। यतश्चैवं तत:Page Navigation
1 ... 6 7 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 ... 162