________________
सूर्यप्रज्ञविवृत्तिः (मल०)
१० प्राभृते
प्राभृतप्राभृतं नक्षत्रसंस्था नं सू४१
॥१३०॥
'ता कहं ते इत्यादि, ता इति पूर्ववत् , कथं ?-केन प्रकारेण भगवन् ! नक्षत्राणां संस्थिति:-संस्थानमाख्यातेति वदेत् ?, एवमुक्त्वा भूयः प्रत्येक प्रश्नं विदधाति-'ता'इत्यादि, ता इति प्राग्वत्, एतेषामनन्तरोदितानामष्टाविंशतिनक्ष- त्राणां मध्ये यदभिजिन्नक्षत्रं तत् 'किंसंठितंति कस्येव संस्थितं-संस्थानं यस्य तत्किंसंस्थितं प्रज्ञप्तं ?, भगवानाह- 'ता एएसि 'मित्यादि, ता इति प्राग्वत्, एतेषाममन्तरोदितानामष्टाविंशतेनक्षत्राणां मध्येऽभिजिन्नक्षत्रं गोशीविलिसंस्थितं प्रज्ञप्त, गोः शीर्षे गोशीर्ष तस्यावली-तत्पुद्गलानां दीर्घरूपा श्रेणिः तत्सम संस्थान प्रज्ञप्तं, एवं शेषाण्यपि सूत्राणि भावनीयानि, नवरं दामनी-पशुबन्धनं, शेषं प्रायः सुगम, संस्थानसङ्घाहिकाश्चेमा जम्बूद्वीपप्रज्ञप्तिसत्कास्तिस्रो गाथाः|'गोसीसावलि १ काहार २ सउणि ३ पुप्फोवयार ४ वावी ५ य [उत्तराद्वयं] । णावा ६ आसक्खंधग ७ भग ८ छुर
घरए ९ य सगडुद्धी १०॥१॥ मिगसीसावलि ११ रुधिरबिंदु १२ तुल १३ वद्धमाणग १४ पडागा १५ । पागारे १६ | पल्लंके १७ [फाल्गुनीद्वयं ] हत्थे १८ मुहफुल्लए १९ चेव ॥२॥खीलग २० दामणि २१ एगावली २२ य गयदंत |२३ विच्छुयअले २४ य । गयविक्कमे २५ य तत्तो सीहनिसाई २६ य संठाणा ॥३॥” इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां दशमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं समाप्तम् ॥
॥१३०॥
तदेवमुक्कं दशमस्य प्राभृतस्याष्टमं प्राभृतप्राभृतं, सम्प्रति नवममारभ्यते, तस्य चायमाधिकारः–'प्रतिनक्षत्रं ताराप्रमाणं वक्तव्य"मिति, ततस्तद्विषयं प्रश्नसूत्रमाह
Jain Education International
For Personal & Private Use Only
www.jainelibrary.org