Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 581
________________ एगे एवमाहंस, वयं पुण एवं वदामो-ता चंदिमसूरिया णं देवा णं महिड्डिया जाव महाणुभागा वरवत्थधरा वरमल्लधरा वराभरणधारी अवोच्छित्तिणयट्ठताए अन्ने चयंति अण्णे उववजंति (सूत्रं १०४)॥ ता कहते'इत्यादि, ता इति पूर्ववत्, कथं ?-केन प्रकारेण चन्द्रादीनामनुभावः-स्वरूपविशेष आख्यात इति ४ावदेत् ?, एवमुक्ते भगवानेतद्विषये ये द्वे प्रतिपत्ती ते उपदर्शयति-तत्थ खलु'इत्यादि, तत्र-चन्द्रादीनामनुभावविषये खल्विमे द्वे प्रतिपत्ती-परतीथिकाभ्युपगमरूपे प्रज्ञप्ते, तद्यथा-'तत्धेगे'इत्यादि, तत्र-तेषां द्वयानां परतीथिकानां मध्ये एक परतीर्थिका एवमाहुः, 'ता'इति तेषां परतीथिकानां प्रथम स्वशिष्यं प्रत्यनेकवक्तव्यतोपक्रमे क्रमोपदर्शनार्थः, चन्द्रसूर्या णमिति वाक्यालङ्कारे नो जीवा-जीवरूपाः किन्त्वजीवाः, तथा नो घना-निविडप्रदेशोपचयाः किन्तु शुषिराः, तथा न वरबोन्दिधराः-प्रधानसजीवसुव्यक्तावयवशरीरोपेताः किन्तु कलेवरा:-कलेवरमात्राः तथा नास्ति णमिति वाक्यालङ्कारे तेषां चन्द्रादोनामुत्थान-ऊवीभवनमितिरुपदर्शने वाशब्दो विकल्पे समुच्चये वा कर्म-उत्क्षेपणावक्षेपणादि बलंशारीरः प्राणो वीर्य-आन्तरोत्साहः 'पुरिसकारपरक्कमे'इति पुरुषकारः-पौरुषाभिमानः पराक्रमः स एव साधिताभिमतप्रयोजनः पुरुषकारश्च पराक्रमश्च पुरुषकारपराक्रममिति वाशब्दः सर्वत्रापि पूर्ववत्, तथा ते चन्द्रादित्याः 'नो विजुयं| लवंति'त्ति नो विद्युतं प्रवर्त्तयन्ति नाप्यशनि-विद्युद्विशेषरूपं नापि गर्जितं-मेघध्वनि किन्तु 'अहो णमित्यादि चन्द्रादित्यानामधो णमिति पूर्ववत् वादरो वायुकायिकः सम्मूर्छति अधश्च बादरो वायुकायिकः सम्मूच्छर्य 'विज्डंपि लवई'इति विद्युतमपि प्रवर्त्तयति, अशनिमपि प्रवर्त्तयति, विद्युदादिरूपेण परिणमते इति भावः, अत्रोपसंहारमाह Jain Education Internation For Personal &Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606