Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूर्यप्रज्ञ विवृत्तिः ( मल० )
॥२९६॥
Jain Education International
स्वयं सम्यकूकरणेन गृहीतापि सती "व्यत्ययोऽप्यासा" मिति वचनाच्चतुर्थ्यर्थे सप्तमी, ततोऽयमर्थः धद्धे इति स्तब्धाय स्वभावत एव मानप्रकृत्या विनयभ्रंशकारिणे, 'गारविय'त्ति, ऋद्ध्यादि गौरवं सञ्जातमस्येति गौरवितस्तस्मै ऋद्धिरससातानामन्यतमेन गौरवेण गुरुतरायेति भावः, ऋद्ध्यादिमदोपेतो ह्यचिन्त्यचिन्तामणिकल्पमपीदं सूर्यप्रज्ञप्तिप्रकीर्णकमाचार्यादिकं च तद्वेत्तारमवज्ञया पश्यति, सा चावज्ञा दुरन्तनरकादिप्रपातहेतुरतस्तदुपकारायैव तस्मै दानप्रतिषेधः, इयं च भावना स्तब्धमान्यादिष्वपि भावनीया, तथा मानिने - जात्यादिमदोपेताय प्रत्यनीकाय - दूरभव्यतया अभव्य, तया वा सिद्धान्तवचननिकुट्टनपराय, तथा अल्पश्रुताय - अवगाढस्तोकशास्त्राय, स हि जिनवचनेषु ( अ ) सम्यम्भावितत्वात् शब्दार्थपर्यालोचनायामक्षुण्णत्वाच्च यथावत्कथ्यमानमपि न सम्यगभिरोचयते इति न देया, किन्तु तद्विपरीताय दातव्या भवेत् भवेदिति क्रियापदस्य सामर्थ्य लब्धावप्युपादानं दातव्यत्वावधारणार्थे, तद्विपरीताय दातव्यैव नादातव्या, अदाने शास्त्रव्यवच्छेदप्रसक्त्या तीर्थव्यवच्छेदप्रसक्तेः, एतदेव व्यक्तीकुर्वन्नाह - ' सद्धे त्यादि, श्रद्धा - श्रवणं प्रति वाञ्छा धृतिः- विवक्षितं जिनवचनं सत्यमेव नान्यथेति मनसोऽवष्टम्भः उत्थानं - श्रवणाय गुरुं प्रत्यभिमुखगमनं उत्साहःश्रवणविषये मनसः उत्कलिका विशेषः यद्वशादिदानीमेव यदि मे पुण्यवशात् सामग्री सम्पद्यते शृणोमि च ततः शोभनं भवतीति परिणाम उपजायते कर्म्म-वन्दनादिलक्षणं बलं - शारीरो वाचनादिविषयः प्राणः वीर्य - अनुप्रेक्षायां सूक्ष्मसूक्ष्मार्थोहनशक्ति: पुरुपकारः - तदेव वीर्य साधिताभिमतप्रयोजनं, एतैः कारणैः यः स्वयं शिक्षितोऽपि - गृहीतसूर्यप्रज्ञप्तिसूत्रार्थोभयोऽपि सन् यो दाक्षिण्यादिना अन्तेवासिनि अभाजने - अयोग्ये प्रतिक्षिपेत् — सूत्रतो
For Personal & Private Use Only
२० प्राभृते दाने योग्या योग्यौ सू १०८
॥२९६ ॥
www.jainelibrary.org

Page Navigation
1 ... 600 601 602 603 604 605 606