Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 606
________________ ऽर्थत उभयतो वा न्यसेत् 'सो पयवणे'त्यादि स प्रवचनकुलगणसङ्घबाह्यो ज्ञानविनयपरिहीणो-ज्ञानाचारपरिहीणो| भगवदर्हत्स्थविरगणधरमर्यादां-भगवदहुंदादिकृतां व्यवस्थां भवति किल व्यतिक्रान्तः, किलेत्याप्तवादसूचकं, इत्थमाप्त वचनं व्यवस्थितं यथा स नूनं भगवदर्हदादिव्यवस्थामतिक्रान्त इति, तदतिक्रमे च दीर्घसंसारिता / 'तम्हे'त्यादि, 4 तस्माद् धृत्युत्थानोत्साहकर्मवलवीयैर्यत् ज्ञान-सूर्यप्रज्ञप्त्यादि स्वयं मुमुक्षुणा सता शिक्षितं तन्नियमादात्मन्येव धर्तव्यं, 4 हैन तु जातुचिदप्यविनीतेषु दातव्यं, उक्तप्रकारेण तद्दाने आत्मपरदीर्घसंसारित्वप्रसक्तेः, तदेवमुक्तः प्रदानविधिः / इयं च सूर्यप्रज्ञप्तिरर्थतो मिथिलायां नगर्यो भगवता वीरवर्द्धमानस्वामिना साक्षादुक्ता, भगवांश्चास्य वर्तमानस्य तीर्थस्याधि४ पतिस्ततोऽर्थप्रणेतृत्वाद् वर्तमानतीर्थाधिपतित्वाच्च मङ्गलार्थ शास्त्रपर्यन्ते तन्नमस्कारमाह-'वीरवरस्से'त्यादि, 'सूर-3 वीर विक्रान्ती' वीरयति स्म वीरः, स च नामादिभेदाच्चतुर्द्धा भिद्यमानो-नामवीरः स्थापनावीरो द्रव्यवीरो भाववीरश्च, तत्र यस्य जीवस्य अजीवस्य वा अन्वर्थरहितं वीर इति नाम क्रियते स नाम्ना वीरो नामनामवतोरभेदात् नाम चासौ वीरश्च नामवीरः, स्थापनावीरो वीरस्य-सुभटस्य स्थापना वीरवर्द्धमानस्वामिस्थापनात्, द्रव्यवीरो द्विधा-आगमतो नोआगमतश्च, तत्र आगमतो ज्ञाता तत्र चानुपयुक्तः, 'अनुपयोगो द्रव्य मिति वचनात् , नोआगमतस्त्रिधा-तद्यथा शरीरद्रव्यवीरो भव्यशरीरद्रव्यवीरस्तद्व्यतिरिक्तश्च, तत्र वीर इति पदार्थज्ञस्य यत् शरीरं जीवविप्रयुक्तं सिद्धशिला४ तलादिस्थितं तत् भूते द्रव्यवीरः, यत्पुनर्वालकस्य शरीरं वीर इति पदार्थमद्यापि नावबुध्यते अथ चावश्यमायत्यां भोत्स्यते / स तथाविधभाविभावत्वात् भव्यशरीरद्रव्यवीरः, तद्व्यतिरिक्तः स्वशत्रुविदारणसमर्थोऽनेकशः सङ्ग्रामशिरसि लब्धजयप AGRICROCOCCAGACC4848000 Jain Educe No For Personal & Private Use Only anbrary.org

Loading...

Page Navigation
1 ... 604 605 606