Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
-
%95%-50
5-%
2
-
भूतश्चारः-शोभनो वेषो यस्याः सा तथाभूता तया 'संगतहसियभणियचिट्टियसंलावविलासनिउणजुत्तोवयारकुसलाए' संगतं-मैत्रीगतं गमनं सविलासंचङ्कमणमित्यर्थः हसितं-सप्रमोदं कपोलसूचितं हसनं भणितं-मन्मथोहीपिका विचित्रा भणितिश्चेष्टितं-सकाममङ्गप्रत्यगावयवप्रदर्शनपुरस्सरं प्रियस्य पुरतोऽवस्थान सल्लापः-प्रियेण सह सप्रमोदं सकामं परस्परं सङ्कथा एतेषु विलासेन-शुभलीलया यो निपुणः-सूक्ष्मबुद्धिगम्योऽत्यन्तकामविषयपरमनैपुण्योपेत इत्यर्थः युक्तो-देशकालोपपन्न उपचारस्तत्कुशलया अनुरक्तया कदाचिदप्यविरक्तया मनोऽनुकूलया भार्यया सार्द्धमेकान्तेन रतिप्रसक्तो-रमण. प्रसक्तोऽन्यत्र कुत्रापि मनोऽकुर्वन्, अन्यत्र मनःकरणे हि न यथावस्थितमिष्टभार्यागतं कामसुखमनुभवति, इष्टान् शब्दस्पर्शरसरूपगन्धरूपान् पञ्चविधान् मानुषान-मनुष्यभवसम्बन्धिनः कामभोगान् प्रत्यनुभवन्-प्रतिशब्द आभिमुख्ये | संवेदयमानो विहरेद्-अवतिष्ठेत् , 'ता से ण'मित्यादि, तावच्छन्दः क्रमार्थः, आस्तामन्यदग्रेतनं वक्तव्यमिदं तावत्कथ्यतां, स पुरुषः तस्मिन् 'कालसमये' कालेन तथाविधेनोपलक्षितः समयः-अवसरः कालसमयस्तस्मिन् , कीदृशं सात
रूपं-आल्हादरूपं सौख्यं प्रत्यनुभवन् विहरति ?, एवमुक्ते गौतम आह-'ओरालं समणाउसो!' हे भगवन् ! श्रमण! ४आयुष्मन् ! उदारं-अत्यद्भुतं सातसौख्यं प्रत्यनुभवन् विहरति, भगवानाह-'तस्स णमित्यादि, 'एत्तो' एतेभ्यस्तस्य
पुरुषस्य सम्बन्धिभ्यः कामभोगेभ्य 'अणंतगुणविसिट्टतरा चेवत्ति अनन्तगुणा-अनन्तगुणतया विशिष्टतरा एव व्यन्तरदेवानां कामभोगाः, व्यन्तरदेवकामभोगेभ्योऽप्यसुरेन्द्रवर्जानां देवानां कामभोगा अनन्तगुणविशिष्टतराः, तेभ्योऽनन्तगुणविशिष्टतरा इन्द्रभूतानां असुरकुमाराणां देवानां कामभोगाः, तेभ्योऽप्यनन्तगुणविशिष्टतरा ग्रहनक्षत्र
5
5
-5-25-%
%
%
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 595 596 597 598 599 600 601 602 603 604 605 606