Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 595
________________ ॐॐ महग्घाभरणालंकियसरीरे'इति अल्पैः-स्तोकैर्महाघैः-महामूल्यैराभरणैरलङ्कृतशरीरो मनोझं कलमौदनादि स्थाली-पिठरी| तस्यां पाको यस्य तत्तथा, अन्यत्र हि पक्कं न सुपक्वं भवति तत इदं विशेषण, शुद्ध-भक्तदोषविवर्जितं, स्थालीपाकं च तत् शुद्धं च स्थालीपाकशुद्धं, 'अट्ठारसवंजणाउल'मिति अष्टादशभिर्लोकप्रतीतैर्व्यञ्जनैः-शालनकतक्रादिभिराकुलं अष्टादशव्यञ्जनाकुलं,अथवा अष्टादशभेदं च तत् व्यञ्जनाकुलं च अष्टादशव्यञ्जनाकुलं, शाकपार्थिवादिदर्शनाभेदशब्दलोपः, अष्टादश भेदा इमे-"सूओ १ यणो २ जवणं ३ तिण्णि य मंसाइ ६ गोरसो ७ जूसो ८। भक्खा ९गुललावणिया १० मूलफला हरियगं १२ डागो १३ ॥१॥ होइ रसालू य तहा १४ पाणं १५ पाणीय १६ पाणगं चेव १७ । अट्ठारसमो सागो १८ निरुवहओ लोइओ पिंडो॥२॥” इदं गाथाद्वयमपि सुगम, नवरं मांसत्रयं जलजादिसत्कं यूषो-मुद्गतण्डुलजीरककडुभाण्डादिरसः भक्ष्याणि-खण्डखाद्यानि गुडलावणिका लोकप्रसिद्धा गुडपपेटिका गुडधाना वा मूलफलानीत्येकमेव पदं द्वन्द्वसमासरूपं हरितक-जीरकादि शाको-वस्तुलादिभर्जिका रसालू-मजिका तल्लक्षणमिदम्-"दो घयपला महुपलं दहिस्स अद्धाढयं मिरिय वीसा । दस खंडगुल पलाई एस रसालू निवइजोग्गो ॥१॥” इति, पान-सुरादि पानीयं-जलं पानक-1 द्राक्षापानकादि शाकः-तक्रसिद्धः, एवंभूतं भोजनं भुक्तः सन् तस्मिन् तादृशे वासगृहे, किंविशिष्टे इत्याह-अन्तः सचित्रकर्मणि 'वही दूमियघट्टमढे'त्ति दूमिए-सुधापधवलिते घृष्टे पाषाणादिना उपरि घर्षिते ततो मृष्टे-मसृणीकृते, तथा विचित्रेण-विविधचित्रयुक्तेनोल्लोचेन-चन्द्रोदयेन 'चिल्लिय'ति दीप्यमानं गृहमध्यभागे उपरितनं तलं यस्य | | तत्तथा तस्मिन् , तथा बहुसमः-प्रभूतसमः सुविभक्तः-सुविच्छित्तिको भूमिभागो यत्र तस्मिन् , तथा मणिरत्नप्रणाशिता Jain Education Internation For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 593 594 595 596 597 598 599 600 601 602 603 604 605 606