Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूर्यप्रज्ञ- प्तिवृत्तिः (मल०)
२० माइते चन्द्रादित्यान्वर्थः
सू १०५ कामभोगा: सू १०६
॥२९३॥
न्धकारे तथा कालागुरुप्रवरकुन्दुरुक्कतुरुष्कधूपस्य यो गन्धो मघमघायमानः उद्भूतः-इतस्ततो विप्रसृतस्तेनाभिराम- रमणीयं तस्मिन् , तत्र कुंदुरुक्कं-सिल्हकं, तथा शोभनो गन्धः तेन कृत्वा (ग्रं० ९००० ) वरगन्धिक-वरो गन्धो वर- गन्धः सोऽस्यास्तीति वरगन्धिकं, 'अतोऽनेकस्वरा'दितीकप्रत्ययः, तस्मिन् , अत एव गन्धवर्तिभूते तस्मिन् , तादृशे शयनीये 'उभयतः' उभयोः पार्श्वयोरुन्नते मध्येन च-मध्यभागेन गम्भीरे 'सालिंगणवट्टिए'त्ति सहालिङ्गनवा-शरीरप्रमाणेनोपधानेन वर्त्तते यत्तत्तथा, तथा 'उभयो विब्बोयणे'इति उभयोः प्रदेशयोः-शिरोऽन्तपादान्तलक्षणयोर्विबोयणे-उपधानके यत्र तत्तथा, तत्र क्वचित् 'पण्णत्तगंडविब्बोयणेत्ति पाठः तत्रैवं व्युत्पत्तिः-प्रज्ञया-विशिष्टकर्मविषयबुद्ध्या आप्ते-प्राप्ते अतीव सुष्ठु परिकम्मिते इति भावः गण्डोपधानके यत्र तत्तथा तत्र, ओयवियखोमियदुगुल्लपट्टपडिच्छायणे' ओयवियं-सुपरिकम्मितं क्षौमिकं दुकूलं-कापर्णासिकमतसीमयं वा वस्त्रं तस्य युगलरूपो यः पट्टशाटकः स | प्रतिच्छादनं-आच्छादनं यस्य तत्तथा तत्र, 'रत्तंसुयसंवुडे' रक्तांशुकेन-मशकगृहाभिधानेन वस्त्रविशेषेण संवृते-समन्तत आवृते 'आईणगरूयबूरनवणीयतूलफासे' आजिनक-चर्ममयो वस्त्रविशेषः स च स्वभावादतिकोमलो भवति रूतं च-कार्पासपक्ष्म बूरो-वनस्पतिविशेषः नवनीतं च-चक्षणं तूलश्च-अर्कतूल इति द्वन्द्वः अत एतेषामिव स्पर्शो यस्य तत्तथा तस्मिन् , 'सुगन्धवरकुसुमचुण्णसयणोवयारकलिए' सुगन्धीनि यानि वरकुसुमानि ये च सुगन्धयश्चर्णाःपटवासादयो ये च एतद्व्यतिरिक्तास्तथाविधाः शयनोपचारास्तैः कलिते, तथा तादृशया वक्तुमशक्यस्वरूपतया पुण्यवतां योग्यया 'सिंगारागारचारुवेसाए'त्ति शृङ्गारः-शृङ्गाररसपोषकः आकारः-सन्निवेशविशेषो यस्य स शृङ्गाराकारः इत्थं
॥२९३॥
dain Education Internator
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 594 595 596 597 598 599 600 601 602 603 604 605 606