Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education International
पृथग्भूतं स्वमतं भगवानुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञाना एवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह - 'ता चंदिमे' त्यादि, ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्यालङ्कारे देवा 'महर्द्धिका' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा, तथा महती द्युतिः- शरीराभरणाश्रिता येषां ते महाद्युतयः, तथा महत् बलं - शारीरः प्राणो येषां ते महाबलाः, तथा महत्- विस्तीर्ण सर्वस्मिन्नपि जगति विस्तृतत्वात् यशः- श्लाघा येषां ते महायशसः, तथा महान् अनुभावो - वैक्रियकरणादिविषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः, तथा महत्-भवनपतिव्यन्तरेभ्योऽतिप्रभूतं तदपेक्षया तेषां प्रशान्तत्वात् सौख्यं येषां ते महासौख्याः, वरवस्त्रधरा माल्यधरा वरगन्धधरा वराभरणधरा अव्यवच्छिन्ननयार्थतया - द्रव्यास्तिकनयमतेन काले- वक्ष्यमाणप्रमाणस्वस्वायुर्व्यवच्छेदे अन्ये पूर्वोत्पन्नाश्च्यवन्तेच्यवमानाः अन्ये तथाजगत्स्वाभाव्यात्षण्मासादारतो नियमतः उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत् स्वशिष्येभ्यः॥ | इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां सप्तदशं प्राभृतं समाप्तम् ॥
तदेवमुक्तं सप्तदर्श प्राभृतं साम्प्रतमष्टादशमारभ्यते, तस्य चायमर्थाधिकारः यथा - 'चन्द्रसूर्यादीनां भूमेरूर्ध्वमुच्चत्वप्रमाणं वक्तव्यमिति ततस्तद्विषयं प्रश्नसूत्रमाह
ता कहते उच्चत्ते आहितेति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ, तत्थेगे एवमाहंसु-ता एगं जोयणसहस्सं सूरे उ उच्च सेणं दिवहूं चंदे एगे एवमाहंसु १ एगे पुण एवमाहंसु ता दो जोयणसहस्साई सूरे उ उच्चतेणं अड्डातिजाई चंदे एगे एवमाहंसु २ एगे पुण एवमाहंसु ता तिन्नि जोयणसहस्साई
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 519 520 521 522 523 524 525 526 527 528 529 530 531 532 533 534 535 536 537 538 539 540 541 542 543 544 545 546 547 548 549 550 551 552 553 554 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606