Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
सूयमज्ञतिवृत्तिः
० ॥२७९॥
१९प्राभृते चन्द्रवृद्ध्या दि चन्द्रादीनामूवों त्पन्नत्वादि
सू १००
52-5-25555
याङ्गसूत्रं-'सुक्कपक्खस्स दिवसे २ चंदो बावडिं भागे परिवड्डईत्ति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-यस्मात्कारणात् चन्द्रो द्वापष्टिं २ भागान्-द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेन पुनर्दिवसे दिवसे तानेव
द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् क्षपयति-परिहापयति । एतदेव व्याचष्टे-पनरस'इत्यादि, कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षे तु पुनस्तमेव प्रतिदिवसं पञ्चदशभागं आत्मीयेन पञ्चदशभागेन व्यतिक्रामति-मुञ्चति, किमुक्तं भवति ?-कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैक पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह-एवं वडई'इत्यादि, एवं-राहुविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो वर्द्धते-बर्द्धमानः प्रतिभासते चन्द्रः, एवं-राहुविमानेन प्रतिदिवसं क्रमेणावरणकरणतः प्रतिहानिः-प्रतिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैवानुभावेन-कारणेन एकः पक्षः काल:-कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते, एकस्तु ज्योत्स्नः-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः। 'अंतो'इत्यादि, अन्तः-मध्ये मनुष्यक्षेत्रे-मनुष्यस्य क्षेत्रस्य पञ्चविधा ज्योतिष्काः, तद्यथा-चन्द्राः सूर्या ग्रहगणाश्चशब्दान्नक्षत्राणि तारकाश्च भवन्ति, चारोपगाः-चारयुक्ताः, 'तेण पर मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततो-मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्यग्र
॥२७९॥
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606