________________
सूयमज्ञतिवृत्तिः
० ॥२७९॥
१९प्राभृते चन्द्रवृद्ध्या दि चन्द्रादीनामूवों त्पन्नत्वादि
सू १००
52-5-25555
याङ्गसूत्रं-'सुक्कपक्खस्स दिवसे २ चंदो बावडिं भागे परिवड्डईत्ति तदप्येवमेव व्याख्येयं, सम्प्रदायवशाद्धि सूत्रं व्याख्येयं, न स्वमनीषिकया, सम्प्रदायश्च यथोक्तस्वरूप इति, तत्र शुक्लपक्षस्य दिवसे यत्-यस्मात्कारणात् चन्द्रो द्वापष्टिं २ भागान्-द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् यावत्परिवर्द्धते, 'कालेन' कृष्णपक्षेन पुनर्दिवसे दिवसे तानेव
द्वापष्टिभागसत्कान् चतुरश्चतुरो भागान् क्षपयति-परिहापयति । एतदेव व्याचष्टे-पनरस'इत्यादि, कृष्णपक्षे प्रतिदिवसं राहुविमानं स्वकीयेन पञ्चदशेन भागेन चन्द्रविमानं पञ्चदशमेव भागं वृणोति-आच्छादयति, शुक्लपक्षे तु पुनस्तमेव प्रतिदिवसं पञ्चदशभागं आत्मीयेन पञ्चदशभागेन व्यतिक्रामति-मुञ्चति, किमुक्तं भवति ?-कृष्णपक्षे प्रतिपद आरभ्यात्मीयेन पञ्चदशेन भागेन प्रतिदिवसमेकैकं पञ्चदशभागमुपरितनभागादारभ्यावृणोति, शुक्लपक्षे तु प्रतिपद आरभ्य तेनैव क्रमेण प्रतिदिवसमेकैक पञ्चदशभागं प्रकटीकरोति, तेन जगति चन्द्रमण्डलवृद्धिहानी प्रतिभासेते, स्वरूपतः पुनश्चन्द्रमण्डलमवस्थितमेव । तथा चाह-एवं वडई'इत्यादि, एवं-राहुविमानेन प्रतिदिवसं क्रमेणानावरणकरणतो वर्द्धते-बर्द्धमानः प्रतिभासते चन्द्रः, एवं-राहुविमानेन प्रतिदिवसं क्रमेणावरणकरणतः प्रतिहानिः-प्रतिहानिप्रतिभासो भवति चन्द्रस्य विषये, एतेनैवानुभावेन-कारणेन एकः पक्षः काल:-कृष्णो भवति, यत्र चन्द्रस्य परिहानिः प्रतिभासते, एकस्तु ज्योत्स्नः-शुक्लो यत्र चन्द्रविषयो वृद्धिप्रतिभासः। 'अंतो'इत्यादि, अन्तः-मध्ये मनुष्यक्षेत्रे-मनुष्यस्य क्षेत्रस्य पञ्चविधा ज्योतिष्काः, तद्यथा-चन्द्राः सूर्या ग्रहगणाश्चशब्दान्नक्षत्राणि तारकाश्च भवन्ति, चारोपगाः-चारयुक्ताः, 'तेण पर मित्यादि, तेनेति प्राकृतत्वात् पञ्चम्यर्थे तृतीया, ततो-मनुष्यक्षेत्रात् परं यानि शेषाणि चन्द्रादित्यग्र
॥२७९॥
Jain Education Internation
For Personal & Private Use Only
www.jainelibrary.org