________________
सुहलेसा मंदलेसा मंदायवलेसा चित्तंतरलेसा अण्णोण्णसमोगाढाहिं लेसाहिं कूडा इव ठाणठिता ते पदेसे सबतो समंता ओभासंति उज्जोति तवेंति पभासेंति, ता तेसिणं देवाणं जाहे इंदे चयति से कहमिदाणिं पकरेंति ?, ता जाव चत्तारि पंच सामाणियदेवा तं ठाणं तहेव जाव छम्मासे (सूत्रं १००)॥ | 'केण'मित्यादि, केन कारणेन शुक्लपक्षे चन्द्रो वर्द्धते ?, केन वा कारणेन चन्द्रस्य कृष्णपक्षे परिहानिर्भवति, केन वा अनुभावेन-प्रभावेन चन्द्रस्य एकः पक्षः कृष्णो भवति एको ज्योत्स्नः-शुक्ल इति?, एवमुक्त भगवानाह-'किण्ह'मित्यादि, इह द्विविधो राहुस्तद्यथा-पर्वराहुः नित्यराहुश्च, तत्र पर्वराहुः स उच्यते यः कदाचिदकस्मात्समागत्य निजविमानेन चन्द्रविमानं सूर्यविमानं च अन्तरितं करोति, अन्तरिते च कृते लोके ग्रहणमिति प्रसिद्धिः, स इह न गृह्यते, यस्तु नित्यराहुस्तस्य विमानं कृष्णं, तच्च तथाजगत्स्वाभाव्यात् चन्द्रेण सह नित्यं-सर्वकालमविरहितं तथा चतुरङ्गलेन-चतुर्भिरङ्गलैरप्राप्तं सत् चन्द्रविमानस्याधस्ताच्चरति, तच्चैवं चरत् शुक्लपक्षे शनैः शनैः प्रकटीकरोति चन्द्रमसं कृष्णपक्षे च शनैः शनैरावृणोति, तथा चाह-'बावट्टि'मित्यादि, इह द्वापष्टिभागीकृतस्य चन्द्रविमानस्य द्वौ भागावुपरितनावपाकृत्य शेषस्य पञ्चदशभिर्भागे हृते ये चत्वारो भागा लभ्यन्ते ते द्वाषष्टिशब्देनोच्यन्ते, 'अवयवे समुदायोपचारात्', एतच्च व्याख्यानं जीवाभिगमचूर्णादिदर्शनतः कृतं, न पुनः स्वमनीषिकया, तथा चास्या एव गाथाया व्याख्याने जीवा|भिगमचूर्णिः-"चन्द्रविमान द्वापष्टिभागीक्रियते, ततः पञ्चदशभिर्भागो हियते, तत्र चत्वारो भागा द्वापष्टिभागानां पञ्चदशभागेन लभ्यन्ते, शेषौ द्वौ भागौ, एतावद् दिने दिने शुक्लपक्षस्य राहणा मुच्यते"इत्यादि, एवं च सति यत् समवा
Join Education International
For Personal & Private Use Only
www.jainelibrary.org