SearchBrowseAboutContactDonate
Page Preview
Page 521
Loading...
Download File
Download File
Page Text
________________ Jain Education International पृथग्भूतं स्वमतं भगवानुपदर्शयति- 'वयं पुण' इत्यादि, वयं पुनरुत्पन्न केवलज्ञाना एवं वक्ष्यमाणेन प्रकारेण वदामः, तमेव प्रकारमाह - 'ता चंदिमे' त्यादि, ता इति पूर्ववत् चन्द्रसूर्या णमिति वाक्यालङ्कारे देवा 'महर्द्धिका' महती ऋद्धिर्विमानपरिवारादिका येषां ते तथा, तथा महती द्युतिः- शरीराभरणाश्रिता येषां ते महाद्युतयः, तथा महत् बलं - शारीरः प्राणो येषां ते महाबलाः, तथा महत्- विस्तीर्ण सर्वस्मिन्नपि जगति विस्तृतत्वात् यशः- श्लाघा येषां ते महायशसः, तथा महान् अनुभावो - वैक्रियकरणादिविषयोऽचिन्त्यः शक्तिविशेषो येषां ते महानुभावाः, तथा महत्-भवनपतिव्यन्तरेभ्योऽतिप्रभूतं तदपेक्षया तेषां प्रशान्तत्वात् सौख्यं येषां ते महासौख्याः, वरवस्त्रधरा माल्यधरा वरगन्धधरा वराभरणधरा अव्यवच्छिन्ननयार्थतया - द्रव्यास्तिकनयमतेन काले- वक्ष्यमाणप्रमाणस्वस्वायुर्व्यवच्छेदे अन्ये पूर्वोत्पन्नाश्च्यवन्तेच्यवमानाः अन्ये तथाजगत्स्वाभाव्यात्षण्मासादारतो नियमतः उत्पद्यन्ते उत्पद्यमाना आख्याता इति वदेत् स्वशिष्येभ्यः॥ | इति श्रीमलयगिरिविरचितायां सूर्यप्रज्ञप्तिटीकायां सप्तदशं प्राभृतं समाप्तम् ॥ तदेवमुक्तं सप्तदर्श प्राभृतं साम्प्रतमष्टादशमारभ्यते, तस्य चायमर्थाधिकारः यथा - 'चन्द्रसूर्यादीनां भूमेरूर्ध्वमुच्चत्वप्रमाणं वक्तव्यमिति ततस्तद्विषयं प्रश्नसूत्रमाह ता कहते उच्चत्ते आहितेति वदेज्जा ?, तत्थ खलु इमाओ पणवीसं पडिवत्तीओ, तत्थेगे एवमाहंसु-ता एगं जोयणसहस्सं सूरे उ उच्च सेणं दिवहूं चंदे एगे एवमाहंसु १ एगे पुण एवमाहंसु ता दो जोयणसहस्साई सूरे उ उच्चतेणं अड्डातिजाई चंदे एगे एवमाहंसु २ एगे पुण एवमाहंसु ता तिन्नि जोयणसहस्साई For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy