Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 557
________________ सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठति अत आह-तद्यथा-अभ्यन्तरपुष्करार्द्ध च बाह्यपुष्कराई च, पशब्दः समुच्चये, किमुक्तं भवति ?-मानुपोत्तरात्पर्वतादाक् यत् फुकरार्द्धं तदभ्यन्तरपुष्करार्द्ध यत्पुनस्तस्मान्मानुषोत्तरात्पर्वतात्परतः पुष्करार्द्धं तद्वाह्यपुष्करा मिति, 'ता अभितरपुक्खरद्धे ण'मित्यादि सर्वमपि सुग, नवरं परिधिगणितभावना प्राग्वत्कर्त्तव्या, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वासप्तत्या गुणयित्वा परिभावनीयं ॥ सम्पति मनुष्यक्षेत्रवक्तव्यतामाह-'ता माणुसखेत्ते णं केवइय'मित्यादि सुगम, नवरं मानुषक्षेत्रस्यायामविष्कम्भपरिमाणं पञ्चचत्वारिंशल्लक्षा एवं-एका लक्षाजम्बूद्वीपे ततो लवणसमुद्रे एकतोऽपि द्वे लक्षे अपरतोऽपि द्वे लक्षे इति चतस्रः धातकीखण्डे एकतोऽपि चतम्रो लक्षा अपरतोऽपीत्यष्टौ कालोदसमुद्रे एकतोऽपि अष्टावपरतोऽप्यष्टाविति षोडश अभ्यन्तरपुष्कराद्धेऽप्येकतोऽप्यष्टी लक्षा अपरतोऽपीति षोडशेति सर्वसङ्ख्यया | पञ्चचत्वारिंशल्लक्षाः, परिधिगणितपरिभावना तु 'विक्खम्भवग्गदहगुणे'त्यादिकरणवशात् स्वयं कर्त्तव्या, नक्षत्रादिप-18 रिमाणं तु अष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीन्येकशशिपरिवारभूतानि द्वात्रिंशेन शतेन गुणयित्वा स्वयमानेतव्यं, 'अद्वेव सयसहस्सा इत्यादि, अत्र गाथापूर्वार्द्धनाभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणमुक्तं, उत्तरार्द्धन मानुषक्षेत्रस्य । 'कोटीत्यादि, एका योजनकोटी द्वाचत्वारिंशत्-द्विचत्वारिंशच्छतसहत्राधिका त्रिंशत् सहस्राणि द्वे शते एकोनपञ्चाशदधिके २४२३०२४९ एतावत्प्रमाणो मानुपक्षेत्रस्य परिरयः, एष एतावत्प्रमाण एव पुष्करार्द्धस्य-अभ्यन्तरपुष्करार्द्धस्यापि परिपारयः, 'बावत्तरं च चंदा' इत्यादिगाथात्रयमभ्यन्तरपुष्करार्द्धगतचन्द्रादिसङ्ख्याप्रतिपादक सुगम, यदपि च 'बत्तीसं चंद- Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 555 556 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606