Book Title: Suryapragnptisutram
Author(s): Malaygiri,
Publisher: Agamoday Samiti
View full book text
________________
Jain Education International
पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टि:-पट्षष्टिसङ्ख्याकानि । अथ किंप्रमाणं पिटकमिति विटकप्रमाणमाह - एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकं चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकं जम्बूद्वीपे एकं जम्बूद्वीपे द्वयोरेव चन्द्रमसोर्द्वयोरेव च सूर्ययोर्भावात्, | द्वे पिटके लवणसमुद्वे तत्र चतुर्णां चन्द्रमसां चतुर्णां च सूर्याणां भावात् एवं षट् पिटकानि धातकीखण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्करार्द्ध इति भवन्ति सर्वमीलने चन्द्रादित्यानां पटूपष्टिः पिटकानि । 'छावट्टी'त्यादि, सर्व| स्मिन्नपि मनुष्यलोके सर्वसङ्ख्यया नक्षत्राणां पिटकानि भवन्ति पट्षष्टिः, नक्षत्रपिटकप्रमाणं च शशिद्वयसम्बन्धिनक्षत्रसङ्ख्यापरिमाणं, तथा चाह - एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत्सङ्ख्यानि, किमुक्तं भवति ? - पट्पञ्चाशन्नक्षत्रसङ्ख्याकमेकैकं नक्षत्रपिटकं, अत्रापि षट्षष्टिसङ्ख्याभावना एवं एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट् धातकी| खण्डे एकविंशतिः कालोदे पटूत्रिंशदभ्यन्तरपुष्करार्द्ध इति । 'छावट्ठी' त्यादि, महाग्रहाणामपि सर्वस्मिन् मनुष्यलोके सर्व| सङ्ख्यया पिटकानि भवन्ति पट्पष्टिः, ग्रहपिटक प्रमाणं च शशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथा चाह एकैकस्मिन् ग्रहपिटके भवति षट्सप्तत्यधिकं ग्रहशतं, सप्तत्यधिकग्रहशत परिमाणमेकैकं ग्रहपिटकमिति भावः, षट्षष्टिसङ्ख्या भावना च प्राग्वत्कर्त्तव्या । 'चत्तारि य' इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पतयश्चतस्रो भवन्ति, तद्यथा - द्वे पङ्की चन्द्राणां द्वे सूर्याणां एकैका च पतिर्भवति पट्षष्टिः - षट्षष्टिसूर्यादिसङ्ख्या, तद्भावना चैवं एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोर्दक्षिणभागे सूर्यश्चारं
For Personal & Private Use Only
www.jainelibrary.org

Page Navigation
1 ... 557 558 559 560 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606