SearchBrowseAboutContactDonate
Page Preview
Page 559
Loading...
Download File
Download File
Page Text
________________ Jain Education International पिटकानि सर्वसङ्ख्यया मनुष्यलोके भवन्ति षट्षष्टि:-पट्षष्टिसङ्ख्याकानि । अथ किंप्रमाणं पिटकमिति विटकप्रमाणमाह - एकैकस्मिन्नपि पिटके द्वौ चन्द्रौ द्वौ सूर्यौ भवतः किमुक्तं भवति ? - द्वौ चन्द्रौ द्वौ सूर्यावित्येतावत्प्रमाणमेकैकं चन्द्रादित्यानां पिटकमिति, एवंप्रमाणं च पिटकं जम्बूद्वीपे एकं जम्बूद्वीपे द्वयोरेव चन्द्रमसोर्द्वयोरेव च सूर्ययोर्भावात्, | द्वे पिटके लवणसमुद्वे तत्र चतुर्णां चन्द्रमसां चतुर्णां च सूर्याणां भावात् एवं षट् पिटकानि धातकीखण्डे एकविंशतिः कालोदे पत्रिंशदभ्यन्तरपुष्करार्द्ध इति भवन्ति सर्वमीलने चन्द्रादित्यानां पटूपष्टिः पिटकानि । 'छावट्टी'त्यादि, सर्व| स्मिन्नपि मनुष्यलोके सर्वसङ्ख्यया नक्षत्राणां पिटकानि भवन्ति पट्षष्टिः, नक्षत्रपिटकप्रमाणं च शशिद्वयसम्बन्धिनक्षत्रसङ्ख्यापरिमाणं, तथा चाह - एकैकस्मिन् पिटके नक्षत्राणि भवन्ति षट्पञ्चाशत्सङ्ख्यानि, किमुक्तं भवति ? - पट्पञ्चाशन्नक्षत्रसङ्ख्याकमेकैकं नक्षत्रपिटकं, अत्रापि षट्षष्टिसङ्ख्याभावना एवं एकं नक्षत्रपिटकं जम्बूद्वीपे द्वे लवणसमुद्रे षट् धातकी| खण्डे एकविंशतिः कालोदे पटूत्रिंशदभ्यन्तरपुष्करार्द्ध इति । 'छावट्ठी' त्यादि, महाग्रहाणामपि सर्वस्मिन् मनुष्यलोके सर्व| सङ्ख्यया पिटकानि भवन्ति पट्पष्टिः, ग्रहपिटक प्रमाणं च शशिद्वयसम्बन्धिग्रहसङ्ख्यापरिमाणं, तथा चाह एकैकस्मिन् ग्रहपिटके भवति षट्सप्तत्यधिकं ग्रहशतं, सप्तत्यधिकग्रहशत परिमाणमेकैकं ग्रहपिटकमिति भावः, षट्षष्टिसङ्ख्या भावना च प्राग्वत्कर्त्तव्या । 'चत्तारि य' इत्यादि, इह मनुष्यलोके चन्द्रादित्यानां पतयश्चतस्रो भवन्ति, तद्यथा - द्वे पङ्की चन्द्राणां द्वे सूर्याणां एकैका च पतिर्भवति पट्षष्टिः - षट्षष्टिसूर्यादिसङ्ख्या, तद्भावना चैवं एकः किल सूर्यो जम्बूद्वीपे मेरौ दक्षिणभागे चारं चरन् वर्त्तते एक उत्तरभागे एकश्चन्द्रमा मेरोः पूर्वभागे एकोऽपरभागे, तत्र यो मेरोर्दक्षिणभागे सूर्यश्चारं For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy