________________
सूर्यप्रज्ञसिवृत्तिः
( मल०)
॥२७४॥
Jain Education Internat
सय' मित्यादि गाथात्रयं सकलमनुष्यलोकगतचन्द्रादिसङ्ख्याप्रतिपादकं तदपि सुगमं, 'अट्टासीई चत्ता' इति अष्टाशीतिः शतसहस्राणि चत्वारिंशानि चत्वारिंशत्सहस्राधिकानि शेषं गतार्थ, सम्प्रति सकलमनुष्य लोकगततारागणस्यैवोपसंहारमाह - 'एसो' इत्यादि, एषः - अनन्तरगाथोक्तसङ्ख्या कस्तारापिण्डः सर्वसङ्ख्यया मनुष्यलोके आख्यात इति गम्यते, बहिः पुनर्मनुष्यलोकात् यास्तारास्ता जिनैः सर्वज्ञैस्तीर्थकृद्भिर्भणिता असङ्ख्याताः, द्वीपसमुद्राणामसङ्ख्यातत्वात् प्रतिद्वीपं प्रतिसमुद्रं च यथायोगं सङ्ख्येयानामसङ्ख्येयानां च ताराणां सद्भावात्, 'एवइय' मित्यादि, एतावत् सङ्ख्याकं तारापरिमाणं यदनन्तरं भणितं मानुषे लोके तत् ज्योतिष्कं ज्योतिष्कदेव विमानरूपं 'कदम्बपुष्पसंस्थितं' कदम्बपुष्पवत् अधः सङ्कुचितं उपरि विस्तीर्णमुत्तानीकृतार्द्ध कपित्थसंस्थान संस्थितमित्यर्थः चारं चरति चारं प्रतिपद्यते, तथाजगत्स्वाभाव्यात्, ताराग्रहणं चोपलक्षणं तेन सूर्यादयोऽपि यथोक्तसङ्ख्याका मनुष्यलोके तथाजगत्स्वाभाव्याच्चारं प्रतिपद्यन्ते इति द्रष्टव्यं । | सम्प्रत्येतद्गतमेवोपसंहारमाह - 'रवी' त्यादि, रविशशिग्रहनक्षत्राणि उपलक्षणमेतत् तारकाणि च एतावन्ति - एतावत्स - यानि आख्यातानि सर्वज्ञैर्मनुष्यलोके येषां किमित्याह-येषां सूर्यादीनां यथोक्तसङ्ख्याकानां सकलमनुष्यलोकभाविनां प्रत्येकं 'नामगोत्राणि' इहान्वर्धयुक्तं नाम सिद्धान्तपरिभाषया नामगोत्रमित्युच्यते, ततोऽयमर्थः - नामगोत्राणि - अन्वर्थयुक्तानि नामानि यदिवा नामानि च गोत्राणि च नामगोत्राणि प्राकृता - अनतिशयिनः पुरुषा न कदाचनापि प्रज्ञापयिष्यन्ति, केवलं यदा तदा वा सर्वज्ञा एव तत इदमपि सूर्यादिसङ्ख्यानं प्राकृतपुरुषाप्रमेयं सर्वज्ञोपदिष्टमिति सम्यक् श्रद्धेयमिति । 'छावट्टी पिडगाई' इत्यादि, इह द्वौ चन्द्रौ द्वौ सूर्यौ चैकं पिटकमुच्यते, इत्थम्भूतानि च चन्द्रादित्यानां
For Personal & Private Use Only
१९ प्राभृते चन्द्रसूर्यादिपरिमाणं सू १००
॥२७४॥
www.jainelibrary.org