SearchBrowseAboutContactDonate
Page Preview
Page 557
Loading...
Download File
Download File
Page Text
________________ सर्वासु दिक्षु विदिक्षु च विभजमानो विभजमानस्तिष्ठति, केनोल्लेखेन द्विधा विभजमानस्तिष्ठति अत आह-तद्यथा-अभ्यन्तरपुष्करार्द्ध च बाह्यपुष्कराई च, पशब्दः समुच्चये, किमुक्तं भवति ?-मानुपोत्तरात्पर्वतादाक् यत् फुकरार्द्धं तदभ्यन्तरपुष्करार्द्ध यत्पुनस्तस्मान्मानुषोत्तरात्पर्वतात्परतः पुष्करार्द्धं तद्वाह्यपुष्करा मिति, 'ता अभितरपुक्खरद्धे ण'मित्यादि सर्वमपि सुग, नवरं परिधिगणितभावना प्राग्वत्कर्त्तव्या, नक्षत्रादिपरिमाणं चाष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीनि द्वासप्तत्या गुणयित्वा परिभावनीयं ॥ सम्पति मनुष्यक्षेत्रवक्तव्यतामाह-'ता माणुसखेत्ते णं केवइय'मित्यादि सुगम, नवरं मानुषक्षेत्रस्यायामविष्कम्भपरिमाणं पञ्चचत्वारिंशल्लक्षा एवं-एका लक्षाजम्बूद्वीपे ततो लवणसमुद्रे एकतोऽपि द्वे लक्षे अपरतोऽपि द्वे लक्षे इति चतस्रः धातकीखण्डे एकतोऽपि चतम्रो लक्षा अपरतोऽपीत्यष्टौ कालोदसमुद्रे एकतोऽपि अष्टावपरतोऽप्यष्टाविति षोडश अभ्यन्तरपुष्कराद्धेऽप्येकतोऽप्यष्टी लक्षा अपरतोऽपीति षोडशेति सर्वसङ्ख्यया | पञ्चचत्वारिंशल्लक्षाः, परिधिगणितपरिभावना तु 'विक्खम्भवग्गदहगुणे'त्यादिकरणवशात् स्वयं कर्त्तव्या, नक्षत्रादिप-18 रिमाणं तु अष्टाविंशत्यादिसङ्ख्यानि नक्षत्रादीन्येकशशिपरिवारभूतानि द्वात्रिंशेन शतेन गुणयित्वा स्वयमानेतव्यं, 'अद्वेव सयसहस्सा इत्यादि, अत्र गाथापूर्वार्द्धनाभ्यन्तरपुष्करार्द्धस्य विष्कम्भपरिमाणमुक्तं, उत्तरार्द्धन मानुषक्षेत्रस्य । 'कोटीत्यादि, एका योजनकोटी द्वाचत्वारिंशत्-द्विचत्वारिंशच्छतसहत्राधिका त्रिंशत् सहस्राणि द्वे शते एकोनपञ्चाशदधिके २४२३०२४९ एतावत्प्रमाणो मानुपक्षेत्रस्य परिरयः, एष एतावत्प्रमाण एव पुष्करार्द्धस्य-अभ्यन्तरपुष्करार्द्धस्यापि परिपारयः, 'बावत्तरं च चंदा' इत्यादिगाथात्रयमभ्यन्तरपुष्करार्द्धगतचन्द्रादिसङ्ख्याप्रतिपादक सुगम, यदपि च 'बत्तीसं चंद- Jain Education International For Personal & Private Use Only www.jainelibrary.org
SR No.600245
Book TitleSuryapragnptisutram
Original Sutra AuthorMalaygiri
Author
PublisherAgamoday Samiti
Publication Year1919
Total Pages606
LanguageSanskrit
ClassificationManuscript & agam_suryapragnapti
File Size12 MB
JainGPT.orgInstagram
Copyright © Jain Education International. All rights reserved. | Privacy Policy