Book Title: Suryapragnptisutram
Author(s): Malaygiri, 
Publisher: Agamoday Samiti

View full book text
Previous | Next

Page 563
________________ % * -%A5 प्रियविप्रयोगजननेन वा कलहसंपादनतो वा दुःखमुत्पादयन्ति, यदा च येषां जन्मनक्षत्राद्यनुकूलः चन्द्रादीनां चारस्तदा| | तेषां प्रायो यानि शुभवेद्यानि कर्माणि तानि तां तथाविधां विपाकसामग्रीमधिगम्य विपाक प्रतिपद्यन्ते, प्रपन्नविपाकानि च तानि शरीरनीरोगतासम्पादनतो धनवृद्धिकरणेन वा वैरोपशमनतः प्रियसम्प्रयोगसम्पादनतो वा यदिवा प्रारब्धाभीष्टप्रयोजननिष्पत्तिकरणतः सुखमुपजनयन्ति, अत एव महीयांसः परमविवेकिनोऽल्पमपि प्रयोजनं शुभतिथिनक्षत्रादावारभन्ते न तु यथाकथंचन, अत एव जिनानामप्याज्ञा प्रजाजनादिकमधिकृत्येत्थमवर्तिष्ट यथा शुभक्षेत्रे शुभां दिशमभिमुखी-| कृत्य शुभे तिथिनक्षत्रमुहूर्तादौ प्रवाजनव्रतारोपणादि कर्त्तव्यं, नान्यथा, तथा चोक्तं पञ्चवस्तुके-"एसा जिणाणमाणा खित्ताईया य कम्मुणो भणिया । उदयाइकारणं जं तम्हा सबत्थ जइयवं ॥१॥" अस्या अक्षरगमनिकाएषा जिनानामाज्ञा शुभे क्षेत्रे शुभां दिशमभिमुखीकृत्य शुभे तिथिनक्षत्रमुहूर्त्तादौ प्रव्राजनव्रतारोपणादि कर्त्तव्यं, नान्यथा, अपिच-क्षेत्रादयोऽपि कर्मणामुदयादिकारणं भगवद्भिताः, ततोऽशुभद्रव्यक्षेत्रादिसामग्री प्राप्य कदाचिदशुभवेद्यानि कर्माणि विपाकं गत्वोदयमासादयेयुः, तदुदये च गृहीतव्रतभङ्गादिदोषप्रसङ्गः, शुभद्रव्यक्षेत्रादिसामग्यां तु प्रायो नाशुभकर्मविपाकसम्भव इति निर्विघ्नं सामायिकपरिपालनादि, तस्मादवश्यं छद्मस्थेन सर्वत्र शुभक्षेत्रादौ यतितव्यं ।। ये तु भगवन्तोऽतिशयिनस्ते अतिशयवलादेव सविघ्नं निर्विघ्नं वा सम्यगधिगच्छन्ति ते न शुभतिथिमुहूर्त्तादिकमपेक्षन्ते | इति न तन्मार्गानुसरणं छद्मस्थानां न्याय्यं, तेन ये परममुनिपर्युपासितप्रवचनविडम्बका अपरिमलितजिनशासनोपनिपद्भूतशास्त्रा गुरुपरम्परायातनिरवद्यविशदकालोचितसामाचारीप्रतिपन्धिनः स्वमतिकल्पितसामाचारीका अभिदधति 2525- 54-२ शभकम्मविपास्ते अतिशयवलाये परममुनिधनः स्वमा - ॐ Jain Education International For Personal & Private Use Only www.jainelibrary.org

Loading...

Page Navigation
1 ... 561 562 563 564 565 566 567 568 569 570 571 572 573 574 575 576 577 578 579 580 581 582 583 584 585 586 587 588 589 590 591 592 593 594 595 596 597 598 599 600 601 602 603 604 605 606